________________
उत्तराध्ययन
सूत्रम् २८४
al चतुरङ्गीयनाम or तृतीय||
मध्ययनम्
oll || Itall
all
विजहार कदाचित्तु, कानने नन्दनोपमे । कुर्वन् पुष्पोञ्चयक्रीडां, वृतो विटजनैर्धनैः ।।३३।। भ्रमन्नेवं स स्वसौधे, निशीथेऽप्याऽऽययौ न वा । उल्लङ्घते हि मर्यादां, प्रायो वीतभयो जनः ! ।।३४।। यावश स गृहे नागा-त्तावत्तस्य वशा स्वयम् । नानाति स्म न चाशेत, पालयन्ती सतीव्रतम् ।। ३५ ।। नित्यं क्षुधाजागराभ्यां, साऽथ खिन्ना मनस्विनी । अन्यदा तस्य जननी-मिति स्माह सगद्गदम् ।।३६।। पुत्रो युष्माकमायाति, निशीथे प्रत्यहं गृहे । यावदागमनं चाहं, न भुझे न शयेऽन्वहम् ।। ३७।। नित्यं क्षुजागराभ्यां तत्पीडा मे जायते भृशम् । तत्किङ्करोम्यहं मात-स्त्वदादेशवशंवदा ।। ३८।। श्वश्रूः शशंस सुभगे !, स्वपिहि त्वं यथासुखम् । अद्याहमेव जागर्मि, तयेत्युक्ताऽस्वपीद्वधूः ।।३९।। गृहद्वारं पिधायास्थात्तस्य माता तु जाग्रती । सोऽथाऽऽगतोऽवदत्सद्यो, द्वारमुद्धाट्यतामिति ।। ४०।। माता प्रोचेऽधुना यत्र, द्वारमुद्घाटितं भवेत् । तत्र प्रयाहि न ह्यत्र, द्वारमुद्धाट्यतेऽधुना ! ।। ४१।। तदाकाऽखर्वगर्वः, शिवभूतिरचिन्तयत् । मात्राऽपमानितोऽद्याऽहं, तद्याम्यन्यत्र कुत्रचित् ! ।। ४२।। यतः - "स्थानस्थादपमानेऽपि, देहिनस्तद्वरं रजः । पादाहतं यदुत्थाय, मूर्धानमधिरोहति ! ।। ४३।।" विमृश्येति निजाद्हा-द्याघुट्य नगरे भ्रमन् । दैवादुद्धटितद्वारं, साधूपाश्रयमैक्षत ! ।। ४४ ।। ततस्तत्र प्रविश्यार्य-कृष्णाचार्यान् प्रणम्य तान् । मां प्रव्राजयतेत्यूचे, ते तु प्रावाजयन्न तम् ।। ४५ ।।
116ll
16ll ller
Isll
Isil
1161
lol lIsll
||
२८४
sil
ler
Boll
lall
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org