SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम il चतुरङ्गीयनाम तृतीयमध्ययनम् २८३ 16 lls शिवभूतिस्तावदागा-त्तत्र तांश्चैवमब्रवीत् । किं स्थिता यूयमशुभ-निमित्तस्खलिता इव ।।२०।। यथास्थितेऽथ तैरुक्ते, सोऽवादीञ्चिन्तया कृतम् । सममेव ग्रहीष्यामो, वयं तन्नगरीद्वयम् ।।२१।। ते प्रोचुरस्या: सेनायाः, विभागयुगले कृते । नाऽऽदातुं शक्यतेऽस्माभि-रेकापि नगरी सखे ! ।।२२।। भावी भूयस्तर: काल, एकस्या अपि निर्जये । एकां जित्वा तदन्यस्या, निर्जयोऽप्यऽति दुष्करः ।।२३।। शिवभूतिस्ततोऽवादी-द्यद्येवं तर्हि भो भटाः ! । तयोर्मध्ये दुर्जया या, सा सद्यो मम दीयताम् ।।२४।। द्वयोर्मध्ये दविष्ठा या, तां व्रजेत्युदितेऽथ तैः । सोऽपाच्य मथुरादेशं, ययौ बुद्धिबलोर्जितः ।। २५।। तस्य देशस्य च प्रान्त्यान्, ग्रामादीन् साधयन् स्वयम् । दुर्गान् जग्राह निखिलान्, क्रमाञ्च नगरीमपि ।।२६।। वशीकृत्याथ तद्राज्यं, शिवभूतिर्महामतिः । गत्वा च भूभुजोऽभ्यणे, सर्वं व्यतिकरं जगौ ।। २७।। ततः प्रीतोऽवद्धूपः, कामितं ते ददामि किम् ? । किञ्चिद्विमृश्य सोऽप्यूचे, स्वातन्त्र्यं देहि मे प्रभो ! ।।२८।। यथा हि मां मनोभीष्टां, क्रीडां कुर्वन्तमुञ्चकैः । यत्तद्वा वस्तु गृह्णन्तं, न कोऽपि प्रतिषेधयेत् ! ।।२९।। एवमस्त्विति भूपोऽपि, सत्यसन्धोऽभ्यधात्ततः । सोऽपि नानाविधाः क्रीडाः, कुर्वंस्तत्राऽभ्रमत्पुरे ।।३०।। द्यूतकारैः समं रेमे, स कदाचिद्दिवानिशम् । कदाचित्तु सुरां पीत्वा, क्षीबः क्षीबैः सहारमत् ।।३१।। कदाचित्तु सिषेवेऽसौ, सुन्दरं गणिकागणम् । कदाचित्तु जलक्रीडां, चकार जलहस्तिवत् ।।३२।। || lll llol Ifoll For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy