SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Nell उत्तराध्ययन सूत्रम् २८२ isi चतुरङ्गीयनाम is तृतीय Isl मध्ययनम् ध्यात्वेति भूपतिः श्याम-चतुर्दश्यां निशामुखे । पशुमेकं वारुणीं च, तस्य दत्वैवमब्रवीत् ।।७।। श्मशानस्थे मातृदेवी-गृहे गत्वा त्वमेककः । पशुमद्यबलिं देहि, कृत्यमेतद्विधेहि नः ।।८।। शिवभूतिस्तदादाय, धीरः प्रेतवने ययौ । निहत्य छगलं मातृदेवीनां च बलिं ददौ ।।९।। क्षुधितोऽस्मीति तत्रैवा-ऽऽरेभे तन्मांसभक्षणम् । श्मशानमातृदेवीभ्यो, बिभयामास न त्वसौ ।।१०।। तदा च तद्भापनाय, भूपेन प्रहिता नराः । तत्रागत्य शिवाशब्दान्, भैरवान् परितो व्यधुः ।।११।। बभाज तैरपि क्षोभं, तन्मनो न मनागपि । न चाङ्गेऽप्यभवत्तस्य, रोमोद्भेदो भयोद्भवः ।।१२।। तत्स्वरूपं ततो राज्ञे, प्रोचुस्ते राजपूरुषाः । सोऽपि स्वस्थतया भुक्त्वा, जगाम मापसन्निधौ ।।१३।। ततोऽवबुध्य तं शूरं, बह्रीं वृत्तिं ददौ नृपः । शिवभूतिस्ततो भूपं, सिषेवे तमहर्निशम् ।। १४ । । अन्यदा स नृपः सेना-पत्यादीनखिलान् भटान् । इत्यादिदेश मथुरा-नगरी गृह्यतां द्रुतम् ।। १५ ।। ततः सर्वाभिसारेण, चेलुस्ते मथुरां प्रति । पुराबहिश्च गत्वेति, परस्परमचिन्तयन् ।।१६।। वयं हि मथुरां जेतुं, प्रस्थिताः पार्थिवाज्ञया । द्वे चात्र मथुरापुर्या, विद्येते दक्षिणोत्तरे ।।१७।। तद्गोचरो विशेषश्च, नोक्तः कोऽपि महीभृता । चण्डस्वभावो भूपश्च, न प्रष्टुं शक्यते पुनः ! ।।१८।। तदस्माभिः क्व गन्तव्यं, ध्यायन्त इति तेऽखिलाः । स्थातुं गन्तुं चासमर्था, यावन्मार्गेऽवतस्थिरे ।।१९।। Iell Isl sil ||७|| llel Nsil Nell 16ll 15 २८२ Ifoll Moll in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy