________________
||७|| Ill
उत्तराध्ययन
सूत्रम् २७९
Wel
॥ चतुरङ्गीयनाम 6 तृतीय
मध्ययनम्
||sil
llsll ||७||
यावजीवमिति प्रोक्ते, कालमानमुरीकृतम् । तथा चाग्रे हनिष्यामी-त्याशंसादूषणं भवेत् ।। ७७।। तस्मादपरिमाणेन, प्रत्याख्याम्यखिलं बधम् । त्रिविधं त्रिविधेनेति, वाच्यं स्वीकुर्वता व्रतम् ।। ७८।। एवं वदन्तं तं वन्ध्यो-भ्यधादिति महामति: । आशंसा कि कालमाना-जायते वाञ्छयाऽथवा ? ।। ७९।। आद्ये पक्षे मुनेरद्धा-प्रत्याख्यानं वितन्वतः । पौरुष्यादिपदोचारे-ऽप्याशंसा स्यादनाहता ! ।। ८०।। पौरुष्यादिपदेनाद्धा-प्रत्याख्यानेऽपि निश्चितम् । यामादिकं कालमान-मेव यस्मादुदीर्यते ।। ८१।। अथ तत्रापि पदं त-त्रो वाच्यमिति चेत्तदा । भवेदनशनापत्तिः, प्रव्रज्यादिन एव हि ! ।। ८२।। न च साधोर्भवेन्नाद्धा-प्रत्याख्यानमिति त्वया । वक्तव्यमपसिद्धान्त-दोषापत्तिर्यतो भवेत् ।। ८३।। सिद्धान्ते हि जिनैरद्धा-प्रत्याख्यानं तपस्विनाम् । कर्तव्यत्वेन कथितं, दशधाऽनागतादिकम् ।। ८४ ।। वाञ्छारूपो द्वितीयोऽपि, पक्षो नो युज्यते क्वचित् । मुनेरन्यभवेऽवद्य-सेवाशा यन्न विद्यते ।। ८५।। अन्यञ्चापरिमाणत्वं, प्रत्याख्यानस्य यत्पुरा । त्वया प्रोक्तं तदपि नो, युक्तं युक्तिविरोधतः ।। ८६।। क्रियमाणेऽपरिमाण-प्रत्याख्याने हि जायते । अनागताद्धा सर्वापि, प्रत्याख्यानस्य गोचरः ।।८७।। तदा चायु:क्षयाद्देव-भवं गतवतो यतेः । सावद्यसेवनेऽवश्यं, व्रतभङ्ग प्रसज्यते ! ।। ८८।। अथ यावच्छक्ति यस्मात्, प्रत्याख्यानं विधीयते । तस्मादपरिमाणत्व-मिति चेदभिधीयते ।। ८९।।
||
||ol
||Gll Ill
||ralll
||७|| lll
||6|
16ll ||Gll ||sil Isl Mail
lel
२७९
llell
Mol
llell
llell Jain Education intermin. Mail
For Personal & Private Use Only
vaaww.jainelibrary.org