SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् २७८ Jain Education International किञ्च कञ्चकवत्कर्म, चेद्बहिः स्थितमात्मनि । वेदनापि तदा कर्म-निमित्तान्तः कथं भवेत् ? ।। ६४ ।। अथ सञ्चारिभावात्स्यात्कर्म मध्येपि संस्थितम् । इत्यन्तर्वेदनापि स्यादिति चेत्तेन मन्यते ।। ६५ । तर्हि कककल्पत्वं कर्मणो व्याहतं स्फुटम् । कञ्चको हि बहिः स्पृष्ट, एव स्यान्न तु मध्यगः ।। ६६।। तदा च युगपन्न स्या-द्वहिर्मध्ये च वेदना । कर्मणो बहिरन्तर्वा, सम्बन्धाद्वेदना कृतः ।। ६७ ।। सञ्चारित्वाच्च तत्कर्म, न गच्छति भवान्तरे । जीवेन सह देहस्थ- निःश्वासादिसमीरवत् ।। ६८ ।। सर्वैर्जीवप्रदेशैस्त- त्रिबद्धं कर्म मन्यताम् । रागादिबन्धहेतूनां सद्भावात्सकलात्मनि ।। ६९ ।। न चाविभागसम्बन्धात्पार्थक्यं जीवकर्मणोः । नैव भावीति विज्ञेयं, तद्वाक्याकर्णनात्त्वया ।। ७० ।। तोऽविभागसम्बन्ध-वतोरप्यश्महेमयोः । पृथग्भावो जायमानः, प्रत्यक्षेण निरीक्ष्यते ।। ७१ । । इत्यादिभिः सूरिवाक्यै-र्वन्ध्यो निःशङ्कतां गतः । माहिलायाऽवदत्तानि द्रुतं गत्वा तदन्तिके ।। ७२ ।। तथापि स शठश्चित्ता नात्याक्षीत्तं कदाग्रहम् । क्षोभनां पुनरन्यत्र, करिष्यामीति चिन्तयन् ।। ७३ । अन्यदा नवमं पूर्वं, प्रत्याख्यानाभिधं पठन् । वन्ध्यसाधुर्मुनेः प्रत्याख्यानमेवमवर्णयत् ।। ७४ ।। यावज्जीवं सर्वमेव, प्राणिप्राणातिपातनम् । त्रिविधं त्रिविधेनाङ्गी, प्रत्याख्याति व्रतीभवन् ।। ७५ ।। इत्याद्याकर्ण्य तं गोष्ठा-माहिल: प्रोचिवानिति । परिमाणयुतं प्रत्याख्यानं साधोर्न युज्यते ।। ७६ ।। For Personal & Private Use Only చాచాచా చా చా చా చా చా చా చా చా చా చా చా చా చా చా చా S S T U T S S వెలె లే రా రా ర్డ్ వార్డ్ चतुरङ्गीयनाम तृतीय मध्ययनम् २७८ www.jninelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy