________________
Hal
NGll
foll
ism चतुरङ्गीयनाम
उत्तराध्ययन
सूत्रम् २७७
ME
तृतीय
मध्ययनम्
||
oll
Hol
61 Mail || ||sl Isl
Jell
||6||
IGN
निकाचितं तु यत्कर्म, जीवैः सुदृढबन्धनात् । उदयेनैव तत्प्रायो, वेद्यते नान्यथा पुनः ।।५१।। इत्यनुप्रेक्षमाणं तं, गोष्ठामाहिल इत्यवक् । मैवं वादीर्यदस्माभि-गुरुभ्यो नेदृशं श्रुतम् ।। ५२।। यदि स्यादात्मना कर्म, बद्धं स्पृष्टं निकाचितम् । तदा तदपृथग्भावा-न्मोक्षस्तस्य कथं भवेत् ? ।। ५३।। वन्थ्योऽभ्यधात्कथं तर्हि, सम्बन्धो जीवकर्मणोः । तत इत्यलपद्गोष्ठा-माहिल: कल्पनापटुः ।। ५४।। यथा कञ्चुकिनो देहं, बहिः स्पृशति कञ्चकः । वपुषा सह सम्बद्धो, न त्वसौ जातु जायते ।। ५५।। एवं कर्मापि जीवेन, स्पृष्टं बद्धं पुनर्न तत् । यस्तु तन्मन्यते बद्धं, तस्य न स्याद्भवक्षयः ।। ५६।। एतावदेव गुरुभिः, प्रोक्तं नः पाठनक्षणे । एष सूरिस्तु तत्तत्त्वं, नैव जानाति किञ्चन ।। ५७।। जाताशङ्कस्ततो गत्वा, वन्ध्यः सूरीन्द्रसन्निधौ । निवेद्य माहिलवचः, किं तथ्यमिति पृष्टवान् ? ।। ५८।। सूरयः प्रोचुरुक्तं हि, प्राग्मया तथ्यमेव ते । माहिलस्य तु गीनैव, युक्ता युक्तिविरोधतः ।।५९।। जीवो हि स्वावगाहाभि-व्याप्त एवाम्बरे स्थितम् । गृह्णाति कर्मदलिकं, जातु न त्वन्यदेशगम् ।।६०।। तथा च वह्नयः पिण्ड-वदैक्यं जीवकर्मणोः । स्यान्न तु स्पृष्टमात्रत्वं, देहकञ्चकवत्तयोः ।। ६१।। अथात्मान्यप्रदेशस्थं, कर्मादायनुवेष्टयेत् । यद्यात्मानं तदा तस्य, घटते कञ्चकोपमा ।। ६२।। किन्तु स्यादपसिद्धान्त-स्तदा सूत्रविरोधतः । सूत्रे ह्यन्यप्रदेशस्थ-कर्मादानं निषिध्यते ।। ६३।।
ilsil
lali ||Gll
Mer
16
Isl
leel Nell Isl lish
२७७
lell
Tell
min Education International
For Personal & Private Use Only
www.jainelibrary.org