SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Mol चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २७६ तृतीय ls ||७|| मध्ययनम् तनिशम्योद्गतामों, माहिल: सर्वसाधुभिः । इहैव तिष्ठतेत्युक्तो-ऽप्यनिच्छनिर्ययो बहिः ।। ३८।। पूर्वोपाश्रयपार्श्वस्थे, स्थित्वा सोपाश्रये पृथक् । प्रावतिष्ठान्यसाध्वादीन्, व्युद्ग्राहयितुमुञ्चकैः ।। ३९ ।। व्युद्ग्राहयितुमैशिष्ट, न पुनः कञ्चनापि सः । ततः सोऽन्वेषयामास, सूरीणां छिद्रमन्वहम् ।। ४०।। इतश्च पुष्पमित्राख्य-सूरयोप्यर्थपौरुषीम् । सवर्षीणां पुरश्चक्रुः, श्रुतार्थकथनात्मिकाम् ।। ४१।। सूरीणां सन्निधानेऽर्थ, शृणुतेति महर्षिभिः । तदा प्रोक्तो माहिलर्षि-ईविष्टोऽब्रवीदिति ।। ४२।। निष्पावकुम्भकल्पस्य, तस्याभ्यणे महाधियः ! । यूयमेव श्रुताम्नायान्, गृह्णीत निखिलानपि ।। ४३।। पूर्व कर्मप्रवादाख्य-मष्टमं सूरयस्तु ते । अध्यापयन्तो वन्ध्यादि-साधूनामभवंस्तदा ।। ४४ ।। तत्रावन्ध्यमतिवन्ध्यो-ऽन्यदाधीत्यानुचिन्तयन् । त्रैविध्यं कर्मबन्धस्य, व्याचख्याविति तद्यथा ।। ४५।। जीवैर्हि बध्यते कर्म, बद्धं स्पृष्टं निकाचितम् । तत्र बद्धं यथा सूची-कलापस्तन्तुवेष्टितः ।। ४६।। स्पृष्टं यथा सूचिकास्ताः, किट्टेनैकत्वमाश्रिताः । निकाचितं यथा ताप-कुट्टनैरेकतां गताः ।। ४७।। बध्नात्येवं पूर्वमात्मा, रागादिपरिणामतः । प्रदेश: सकले: कर्म, विज्ञानावरणादिकम् ।। ४८।। तदेव कुरुते स्पृष्टं, तत्परीणामवृद्धितः । सक्लिष्टात्तु परीणामा-त्तत्करोति निकाचितम् ।। ४९।। तत्र बद्धं याति नाश-मुपायैनिन्दनादिभिः । प्रायश्चित्ताधुपायैस्तु, स्पृष्टं कर्म निवर्तते ।। ५०।। llol lal २७६ ||ll llroll Illl For Personal & P Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy