________________
उत्तराध्ययन
सूत्रम् २७४
I
॥ चतुरङ्गीयनाम or तृतीयMH मध्ययनम्
Isll
le
Isll
जितकाशी सूरिपाचे, यियासुरपि स व्रती । सङ्घाग्रहवशात्तत्र, चतुर्मासीमवास्थितः ।।१२।। इतश्च विश्ववन्द्याः श्री-आर्यरक्षितसूरयः । निजायुःप्रान्तमासत्रं-विज्ञायैवमचिन्तयन् ।।१३।। योग्यस्यैव विनेयस्य, प्रदेया गणधारिता । अयोग्यस्य तु तद्दाने, दातुर्दोषो भवेन्महान् ।। १४ ।। यदाहुः - "वूढो गणहरसद्दो, गोअमाईहिं धीरपुरिसेहिं । जो तं ठवेइ अपत्ते, जाणतो सो महापावो ! ।।१५।।" तदाचार्यपदं देयं, योग्यस्यैव विवेकिना । अयोग्यस्तु न तस्याहः, पायसस्येव वायसः ! ।।१६।। योग्यस्तु मम शिष्येषु, गुणरत्नमहोदधिः । अस्ति दुर्बलिकापुष्प-मित्रनामा महाशयः ।।१७।। सर्वेषामात्तदीक्षाणां, मद्वन्धूनां तु सर्वथा । श्रीफल्गुरक्षितो गोष्ठा-माहिलो वाऽस्ति सम्मतः ।।१८।। काङ्क्षन्ति गणधारित्वं, स्वजनत्वाद्धि ते तयोः । सम्यग्जानन्ति न त्वेषां, त्रयाणां गौणमन्तरम् ।।१९।। ततस्तदन्तरं प्रोच्य, सर्वर्षीणां निजे पदे । शिष्यं दुर्बलिकापुष्प-मित्राख्यं स्थापयाम्यहम् ।।२०।। विमृश्येत्यखिलान् साधून्, समाहूय मुनीश्वरः । वल्लतैलाज्यकुम्भानां, दृष्टान्तानित्यवोचत ।। २१।। वल्लकुम्भाद्यथा रिक्ती-कर्तुं नीचैर्मुखीकृतात् । निष्पावा निखिला मध्य-गता निर्यान्ति सत्वरम् ।। २२।। एवं दुर्बलिकापुष्प-मित्रनाम्नो महामतेः । जातोऽस्मि श्रुतसूत्रार्थ-दाने वल्लघटोपमः ।। २३।। अधोमुखीकृतात्तैल-घटात्तैलं यथा द्रुतम् । नियति भूरि किञ्चित्तु, तिष्ठत्यपि घटाश्रितम् ।।२४।।
||sil
fell
Nell
२७४
Jel JOI
isi llol llel
Isl
WAN
el
Jan Education international
For Personal & Private Use Only