________________
उत्तराध्ययन
सूत्रम् २७२
Ifoll lioall चतुरङ्गीयनाम in तृतीय
Insal tol मध्ययनम्
161
JAN IN
Ilal
ततः प्रभाते गुरवः, सभां गत्वेति तं जगुः । एहि सत्यपरीक्षार्थ, गच्छामः कुत्रिकापणम् ।।७९।। हट्टो हि देवसम्बन्धी, 'कुत्रिकापण' उच्यते । सद्भावानखिलास्तत्र, प्रदत्ते प्रार्थितः सुरः ।। ८०।। इत्युक्त्वा ते सहादाय, रोहगुप्तं नृपान्विताः । सुधियामापणा जग्मु-र्गुरवः कुत्रिकापणम् ।। ८१।। तत्र जीवानजीवांश्च, नोजीवांश्च प्रदेहि नः । तैरित्युक्तः सुरो जीवा-नजीवांश्च ददौ द्रुतम् ।। ८२।। नोजीवास्तु जगत्यत्र, नो सन्तीति शशंस च । नोजीवे याचिते भूयो-ऽप्यजीवं वा ददौ सुरः ।। ८३।। रोहगुप्तं तत: सूरि-रूचे मुञ्च कदाग्रहम् । नोजीवश्चेदस्ति विश्वे, तर्हि नादात्कथं सुरः ? ।। ८४ ।। प्रश्नरित्यादिभिः सूरि-स्तं द्रुतं नृपसाक्षिकम् । निजग्राह चतुश्चत्वा-रिंशद्युतशतोन्मितैः ।। ८५।। तथापि रोहगुप्तस्या-ऽत्यजतस्तं कदाग्रहम् । खेलमल्लकभस्म द्राक् शिरसि न्यक्षिपद्गुरुः ।। ८६।। ततस्तं निह्नव इति, सूरिराजेर्बहिष्कृतम् । चक्रे निविषयं भूपः, क्रुद्धस्तच्छाठ्यदर्शनात् ।। ८७।। जयति श्रीमहावीर-जिन इत्यखिले पुरे । उद्घोषणां धराधीश-श्चकार गुरुशासनात् ।।८८।। गुरुदत्तेयमित्यङ्गे, वहन् भूति ततः परम् । निर्लज्जो रोहगुप्तोऽपि, स्वैरं बभ्राम भूतले ।। ८९।। स वैशेषिकसूत्राणि, कल्पयामास च स्वयम् । पदार्थानियतं द्रव्य-गुणादीन् षट् प्ररूपयन् ।। ९०।।
||७||
New
||ll Illl
का
lal || 1180
२७२
Isil
lifall
Isail ||sil
For Personal & Private Use Only