SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् २७१ कि चतुरङ्गीयनाम तृतीयमध्ययनम् भित्रश्चेत्तेन जीवेन, पुनस्तत्सङ्गमः कथम् ? । भिन्नो हि देशोऽन्यत्रापि, सम्मिलेत्परमाणुवत् ।।६६।। तस्य देशस्य चान्येन, जीवेन सह सङ्गमे । सुखदुःखादि साङ्कर्य, स्यात्तयोः कर्मसङ्करात् ।। ६७।। अथ जीवस्य कर्मेव, देशे सङ्क्रामतीति चेत् । तदा तु दोषौ जायेतां, तनाशाकृतागमौ ।। ६८।। कृतनाशो हि जायेत, नाशाद्देशस्थकर्मणः । जीवस्थकर्मणो देशे, सञ्चाराचाकृतागमः ।। ६९।। किञ्चामूर्तस्य जीवस्य, गगनस्येव कर्हिचित् । नैव देशो भवेद्भित्रः, स्वतोऽपि परतोऽपि च ।। ७०।। अभिन्नश्चेत्तदा तु स्या-जीवान्तर्गत एव सः । तदा च राशिद्वितय-मेवासीन तु तत्त्रयम् ।। ७१।। अथाऽभिन्नोऽप्ययं देशः, स्थानभेदविवक्षया । नो जीवः कथ्यते कुम्भ-गृहाद्याकाशवद्यदि ।। ७२।। तर्हि राशि!अजीव-नामाऽपि प्रतिपद्यताम् । व्योमादीनामजीवाना-मप्येवं देशसम्भवात् ।।७३।। तथात्वे च भवेद्राशिचतुष्कं भवतो मते । तद्राशित्रयमेवात्र, कुतस्त्वं प्रतिपद्यसे ? ।।७४।। अथाऽजीवानोअजीवो, लक्षणैक्यानभिद्यते । नो जीवोऽपि तदा जीवा-ल्लक्षणैक्यान भिद्यते ।।७५।। तद्राशिद्वयमेवास्ति, वास्तवं न तु तत्त्रयम् । एवं तयोरभूद्वादः, षण्मासी यावदन्वहम् ।। ७६ ।। अथ भूपो गुरुं प्रोचे, स्वामिन् ! वादः समाप्यताम् । नित्यं सीदति मे राज-कार्य व्यग्रतयाऽनया ।। ७७।। ऊचे सूरिरियत्कालं, धृतोऽयं लीलया मया । अथाऽस्य निग्रहं प्रातः, करिष्ये नात्र संशयः ।।७८।। २७१ lls fiel lil liall Boall Jan Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy