________________
उत्तराध्ययन
सूत्रम्
२७०
HD कब कर
बालने की पूर्व बाते बने बात की हो
1911
Jain Education International
एवमूचे च नन्वत्र, दोष: को नाम विद्यते ? । अस्त्येव राशित्रितयं, वास्तवं यज्जगत्त्रये ।। ५३ ।। गुरुर्जगावसद्भाव -मेनं माख्याहि सन्मते ! । आशातना जिनानां स्या-दसतो हि प्ररूपणे ।। ५४ ।। एवं निवार्यमाणोऽपि सूरिभिः स तमाग्रहम् । नात्याक्षीत्किन्तु तैः साक-मारेभे वादमुन्मदः ।। ५५ ।। ततस्तेन सहाचार्या, गत्वा पार्थिवपर्षदि । इत्यूचुर्मम शिष्येणा - ऽमुनाऽयुक्तं तदोदितम् ।। ५६ ।। द्वावेव राशी विद्येते, मते नः कथितौ जिनैः । असौ तु वादिनं जेतुं, जगौ राशित्रयं तदा ।। ५७ ।। अथ चाऽयं मदाध्मातः, सत्यं न प्रतिपद्यते । मया प्रज्ञाप्यमानस्तु, विवादायोपतिष्ठते ।। ५८ ।। आकर्णयोभयाकणि, राजंस्तद्वादमावयोः । सत्यासत्यविवेको हि, न स्याद्युष्मादृशैर्विना ।। ५९ ।। ततो राज्ञाभ्यनुज्ञाता स्तत्र श्रीगुप्तसूरयः । उपविश्याऽवदन् रोहगुप्तं ब्रूहि निजं मतम् ।। ६० ।।
रोहगुप्तो जगौ जीवा-दजीवो भिद्यते यथा । विलक्षणत्वान्नोजीवो ऽप्येवं तस्माद्विभिद्यते । । ६१ । । जीवाजीवनोजीव-रूपं राशित्रयं स्फुटम् । मतं ममेति तेनोक्ते, जजल्पुरिति सूरयः ।। ६२ ।। जीवाद्विलक्षणत्वं य-न्नोजीवस्योदितं त्वया । तन्न सङ्गच्छते जीव-धर्माणां तत्र दर्शनात् ।। ६३ ।। नोजीवो हि छिन्नपल्ली - पुच्छादिस्तव सम्मतः । तत्र तु प्रेक्ष्यते जीव-लक्षणं स्फुरणादिकम् ।। ६४ ।। अथ चेज्जीवदेशत्वा-नोजीवः स त्वयोच्यते । तत्किं स देशः स्याज्जीवा-द्भिन्नस्तदितरोऽथवा ? ।। ६५ ।।
For Personal & Private Use Only
TTTTTTTTTTTTI
॥७॥ चतुरङ्गीयनाम तृतीय
मध्ययनम्
DOSTO GOATTTTT
२७०
www.jninelibrary.org