SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ial चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २६८ ISIT तृतीय Mail मध्ययनम् Holl ||sil Ifoll Ioll 16l ||sil Ifoll Ill ततस्त्रिदण्डिकोऽवादीत्, द्वौ राशी मम सम्मतौ । जीवराशिरजीवानां, राशिश्चेति क्रमेण तो ।। २७ ।। (युग्मम्) तदाकर्ण्य तदा रोहगुप्त एवं व्यचिन्तयत् । अयं हि मम सिद्धान्ते, प्रविष्टो धूर्तधूर्वहः ।। २८।। अहमप्येवमेवाथ, चेद्वक्ष्ये तदयं जनः । ज्ञास्यत्यसौ परिव्राजो, मतं स्वीकृतवानिति ।। २९।। तद्वचः सत्यमप्यस्यो-स्थापनीयं मयाऽधुना । वादे हि तथ्यमप्यन्य-वचो हन्येत युक्तिभिः ।।३०।। ध्यात्वेति सोऽवदद्वादि-न्मावादीरीदृशं वचः । यजीवाजीवनोजीव-रूपं राशित्रयं भवेत् ।।३१।। तत्र जीवा भवस्थाद्या, अजीवाश्च घटादयः । नो जीवास्तु छिन्नगृह-गोधापुच्छादयो मताः ।।३२।। वाच्यं न चेदं त्रैविध्य-मयुक्तं युक्तिवेदिभिः । दण्डादावादिमध्यान्त-रूपत्रैविध्यदर्शनात् ।। ३३ ।। भावेष्वेवं जगत्काल-मुख्येषु सकलेष्वपि । त्रैविध्यं दृश्यते तन्न, द्वैविध्यं स्यादिहोचितम् ।।३४।। तेनेति राशित्रितयं, व्यवस्थाप्य पराजितः । परिव्राट् तजयायाऽथ, वृश्चिकान् विदधे बहून् ।। ३५ ।। ऊ/कृतोरुपुच्छांस्तानायातो वीक्ष्य दुर्धरान् । रोहगुप्तो व्यधाद्भूरि-बहिणस्तनिबर्हणान् ।। ३६।। वृश्चिकेषु मयूरैस्तै-निहतेषु त्रिदण्डिकः । भोगाभोगेन कीनाश-दण्डाभान् भोगिनोऽतनोत् ।। ३७।। दृष्ट्वोत्कटस्फुटाटोप-विकटांस्तानथो मुनिः । चकार नकुलांस्तैश्च, ते व्याला जनिरे द्रुतम् ।। ३८।। तत: परिव्राड् विदधे, मूषकान् दशनोद्यतान् । रोहगुप्तविमुक्तैस्ते-ऽप्योतुभिर्द्राग् निजक्षिरे ।।३९ ।। i || all ||sl lell २६८ lish llsil ||sil llell in Education intelle For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy