SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ llel उत्तराध्ययन सूत्रम् २६७ ill चतुरङ्गीयनाम तृतीयमध्ययनम् || 16 IIGI tell isl isi Heal ||७|| उद्घोषणां निषिध्येति, गत्वा च गुरुसन्निधौ । परिव्राट् पटहापोह-वार्ता तेषां जगाद सः ।।१४।। ततस्तं प्रोग्राचार्या, वत्स ! दुष्ठु कृतं त्वया । स हि त्रिदण्डिको भूरि-विद्याढ्यो विद्यते यतः ।। १५ ।। स च वादे पराभूतो, विद्याभिः प्रतिवादिनः । करोत्युपद्रवं नाना-विधाभिर्दाम्भिकाग्रणीः ।।१६।। वृश्चिकान्पन्नगानाखू-न्मृगशूकरवायसान् । शकुन्तिकाश्च कुरुते, स हि विद्याभिरुद्धटान् ।।१७।। ततोऽवादीद्रोहगुप्तः, कृतं चिन्तनयाऽनया । न हि वादं प्रतिज्ञाया-ऽन्तर्धातुं शक्यतेऽधुना ।।१८।। मया हि शासनं जैन-मपि मा धर्षयत्वयम् । इति वादोऽङ्गीकृतस्त-द्यद्भाव्यं तद्भवत्विह ! ।।१९।। ततस्तं वादकरणैकाग्रं निर्णीय सूरयः । परिव्राड्जित्वरी: पाठ-सिद्धा विद्या इमा ददुः ।।२०।। केकिनो नकुला ओतु-व्याघ्रसिंहाश्च कौशिकाः । श्येनाश्च याभिर्जायन्ते, तद्विद्याबाधका: क्रमात् ।। २१।। अथ चेदपरं किञ्चि-दुपद्रवकरं भवेत् । रजोहरणमेतत्त्वं, भ्रमयः परितस्तदा ।। २२।। अनेनैव निहन्याश्च, तदुपद्रवकारकम् । अस्यानुभावाच्छक्रस्या-ऽप्यजय्यस्त्वं भविष्यसि ! ।।२३।। इत्युक्त्वा मन्त्रयित्वा च, ते रजोहरणं वरम् । ददुस्तस्मै तदादाय, सोप्यगाद्भूपपर्षदि ।। २४ ।। किं वेत्ति दुर्विदग्धोऽसौ, परिव्राजकदर्दुरः । पूर्वपक्षस्तदस्यैव, भवत्विति जगाद च ।। २५ ।। एते हि जैना दक्षाः स्यु-र्वादादौ युक्तिपाटवात् । तदेषामेव सिद्धान्तं, गृह्णामीति विचिन्तयन् ।। २६ ।। llsil Ish lein lroll leel foll २६७ lifoll Joll INSI For Personal Use Only www.jainelbary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy