SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् २६५ FTTTTTT Jain Education International असन्मतेन तेनान्यान् स व्युदग्राहयन्मुनीन् । आग्रही हि स्ववत्कर्तुमिच्छत्यन्यमलर्कवत् ।। १८ ।। तं च श्रुत्वा जनश्रुत्या, जनव्युद्ग्राहणोद्यतम् । सूरयोऽवारयन्त्रेष, संसारे मा भ्रमीदिति ! ।। १९ ।। तथापि तं तथावस्थ-मत्यजन्तं तमाग्रहम् । उत्सर्गपूर्वमाचार्याः, शासनान्निरकाशयन् ।। २० ।। ततो व्युद्ग्राहयन् लोकानसद्भावनया तया । पुरे राजगृहेऽन्येद्यु- र्ययौ स्वैरं परिभ्रमन् ।। २१ । । सुखं तत्रावतस्थे च मणिनागाख्यभोगिनः । चैत्ये महातपस्तीर प्रभाह्वहदपार्श्वगे ।। २२ ।। तत्र चोपादिशदिदं, श्रोतृसन्दोहसंसदि । वेद्यते युगपज्जीवैः, क्रियायुगलमप्यहो ! ।। २३ ।। इति प्ररूपयन्तं तं पर्षन्मध्यस्थमेव सः । उद्यम्य मुद्गरमिति, प्रोचे, चैत्याधिपः फणी ।। २४ ।। श्रीवीरेणाऽत्र समव-सृतेनेति प्ररूपितम् । एकैव वेद्यते जीवै रेकस्मिन् समये क्रिया ।। २५ ।। तत्किं त्वमधिकज्ञानो, जातो ? वीरप्रभोरपि । यदन्यथा वचस्तस्य कुरुषे दुष्ट शिष्य रे ! ।। २६ ।। मुञ्च दुर्वासनामेना- मङ्गीकुरु विभोर्वचः । नो चेत्त्वां शिक्षयिष्यामि, मुद्ररेणाऽमुनाऽधुना ।। २७ ।। प्रत्यक्षीभूय तेनैवं, शिक्षितो नागनाकिना । तत्सोऽङ्गीकृतवान् मिथ्यादुष्कृतं मेऽस्त्विति ब्रुवन् ।। २८ ।। गङ्गदेव इति तेन भोगिना, बोधितः पुनरवाप्तबोधिकः । गाङ्गवारिविमलं दधद्व्रतं, भूतले विहरति स्म पूर्ववत् ।। २९ ।। इति पञ्चमनिह्नवकथा ।। ५ ।। For Personal & Private Use Only ATTTTTT ॥ चतुरङ्गीयनाम तृतीय मध्ययनम् కరతలైవా లె లో పురాత २६५ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy