SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Mell उत्तराध्ययन सूत्रम् २६४ Rel Isll ||6 | चतुरङ्गीयनाम 6 तृतीय मध्ययनम् leel || dol ||Gl ||61 iii Isll तस्य शिष्यो गङ्गदेवा-चार्यस्तु सपरिच्छदः । तस्थावुल्लकतीराख्ये, पुरे प्राच्यतटस्थिते ।।५।। स चान्येयुः शरत्काले, गुरुवन्दनहेतवे । खेटस्थामपुरे गच्छन्, प्रविवेशोल्लुकानदीम् ।।६।। खल्वाटस्य तदा तस्य, शीर्षे सूर्यांशुसङ्गमात् । बभूव ताप: पानीय-सङ्गाच्छत्यं च पादयोः ।।७।। गङ्गदेवस्ततो दध्या-वेकत्र समये क्रिया । एकैव वेद्यत इति, सूत्रोक्तिर्घटते कथम् ? ।।८।। शीतमुष्णं च युगपद्यदहं वेदयेऽधुना । क्रियाद्वयोपयोगः स्या-त्तदैकसमयेऽपि हि ।।९।। ध्यात्वेति स्वगुरूत्रत्वा, सोऽवादीत्तं निजं मतम् । ततस्ते प्रोचिरे मास्म-वादीरेतदयौक्तिकम् ।।१०।। उपयोगयुगं वत्स !, युगपन्नोपपद्यते । छायातपवदन्योन्यं, विरुद्धं तद्भवेद्यतः ।।११।। यदा स्यात्प्राणिनां शीतो-पयोगव्यापृतं मनः । तदा नोष्णोपयोगे त-याप्रियेत विरोधतः ।।१२।। योगपद्याभिमानस्तू-पयोगयुगलस्य यः । स तु मानससञ्चार-क्रमस्याऽनुपलक्षणात् ।।१३।। मनो हि मौलिपादादा-वुपयुक्तीभवन हि । ज्ञायते सूक्ष्मतात्यन्ता-स्थिरताशीघ्रतादिभिः ।। १४ ।। “ततश्च" यथा पाथोरुहदल-शतस्य व्यतिभेदने । प्रतीयमानमप्यस्ति, योगपद्यं न वास्तवम् ।। १५ ।। तथोपयोगयुग्मस्य, यौगपद्यं भवादृशाम् । प्रतीयमानमपि नो, वास्तवं किं बहूक्तिभिः ? ।।१६।। इति सूरिभिरुक्त: स, तदा तूष्णीकतां दधौ । न त्वहासीद्वासनां तां, श्वपुच्छमिव वक्रताम् ।।१७।। Isl ||si Isil Ill NEI २६४ Is s Juin Education a l For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy