SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ASA उत्तराध्ययन सूत्रम् 5 चतुरङ्गीयनाम तृतीयमध्ययनम् २६३ किञ्च प्रतिक्षणं युष्मान, स्वयमेव विनश्वरान् । विनाशयत्यन्य इति, प्रतिपद्येत कः सुधी: ? ।।२७।। युष्मन्मते च वयम-प्यपरे श्रावका न तु । अथ चेत्स्वामिसिद्धान्तं, प्रमाणीकुरुतोत्तमम् ।। २८।। तदा तु युष्मांस्तानेव, श्रद्दध्मः श्रमणोत्तमान् । न च युष्मानाशयाम-स्त एव श्रावका वयम् ।। २९।। यतः - तदेव वस्तु कालादि-सामग्र्या स्वामिनो मते । एकसामयिकत्वेन, व्युच्छिनत्ति क्षणान्तरे ।।३०।। द्विसामयिकभावेनोत्पद्यते चापरे पुन: । द्विसामयिकतां त्यक्त्वा, तत्त्रिसामयिकं भवेत् ।।३१।। एवं पुनः पुनर्वाच्यं, चतुरादिक्षणेष्वपि । नारकाद्या अप्यनेना-ऽऽशयेन क्षणिका मताः ।। ३२।। श्रुत्वेति प्रतिबुद्धास्ते, क्षणक्षयकदाग्रहम् । हित्वा वीरविभोर्वाणी, तथेति प्रतिपेदिरे ।।३३।। अथ तैर्मुदितैरुपासकैः, क्षमयित्वा परिवन्दिता मुदा । व्यहरन् भुवि ते महर्षयः, पुनरासादितश्रुतबोधयः ।।३४।। इति चतुर्थनिह्नवकथा ।।४।। "प्रभोर्मोक्षागतेऽब्दाना-मष्टाविंशे शतद्वये । जातस्य निह्नवस्याथ, पञ्चमस्योच्यते कथा ।।१।।" “तद्यथा" - तटिन्या उल्लकाह्वायाः, पूर्वस्मिन्पुलिने पुरं । आसीदुल्लुकतीराख्यं, परमद्धि मनोरमम् ।।२।। तस्या एव सरस्वत्याः, द्वितीयपुलिने पुनः । बभूव भूरिलक्ष्मीकं, खेटस्थामाभिधं पुरम् ।।३।। महागिरिगुरोः शिष्यः, खेटस्थामपुरेऽन्यदा । धनगुप्ताभिधः सूरि-श्चतुर्मासीमवास्थितः ।। ४।। ||all sil ASTI || Illl Jan Education international For Personal Private Use Only www. by.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy