SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Isl का चतुरङ्गीयनाम ||sl उत्तराध्ययन सूत्रम् २६२ Isil doll lish तृतीय Wood ISI मध्ययनम् leel Ish "अन्यः करोति दुष्कर्म, नरके याति चापरः । चारित्रं पालयत्यन्यो, मुक्तिमन्योऽधिगच्छति ।।१४।।" इति सर्व वैपरीत्यं, भवेत्क्षणिकवादतः । न चैतदृष्टमिष्टं वा, केनापि क्वचिदप्यहो ! ।।१५।। तत्सर्वथा वस्तुनाशो-ऽनुक्षणं नैव यौक्तिकः । ज्ञेयोऽसौ किन्तु पर्याय-परावृत्त्या विचक्षणः ।।१६।। सूत्रेऽपि नारकादीना-मुच्छेदो यः प्रकीर्तितः । पर्यायान्तरसम्प्राप्ति-रूप: सोऽप्यवबुध्यताम् ।।१७।। जैनानां ह्यखिलं वस्तु, द्रव्यतः शाश्वतं भवेत् । अपरापरपर्याय-परावृत्तेस्त्वशाश्वतम् ।।१८।। इति सूरिभिरुक्तोपि, न मेने स मुनिर्यदा । बहिश्चक्रे तदोत्सर्ग-पूर्वं निह्नव इत्ययम् ।।१९।। ततो व्युद्ग्राहितैः सार्धं, साधुभिर्भूतलेऽभ्रमत् । स समुच्छेदवादोक्त्या, लोकान् व्युद्ग्राहयन् भृशम् ।।२०।। सोऽन्यदा पर्यटन राज-गृहेगात्सपरिच्छदः । शुल्काध्यक्षास्तत्र राज्ञो, बभूवुः श्रावकोत्तमाः ! ।।२१।। ते च तानागतान् ज्ञात्वा, सामुच्छेदिकनिह्नवान् । दध्युरेतान् बोधयामः, कर्कशेनापि कर्मणा ।। २२।। यत: - "य: कर्कशोप्युपाय: प्राग, विपाके सुन्दरो भवेत् । सोप्यङ्गिनां हितस्तीव्रः, प्रतिकार इवापटोः ।। २३ ।। ध्यात्वेत्यारेभिरे तेषां, ताडनं ते कशादिभिः । ततस्ते मुनयः प्रोचु-र्भयवेपितभूघनाः ।। २४ ।। अस्माभिः श्रावका यूयं, जनश्रुत्या श्रुताः पुरा । तत्किं विधत्त विध्वंस-मस्माकं व्रतिनामपि ? ।। २५ ।। श्राद्धाः प्रोचुरभूदात्तं, व्रतं यैस्ते भवन्मते । व्युच्छिन्नाः सर्वथा यूयं, चोत्पन्नाः केचनाऽपरे ! ।।२६।। Ioli liall lifoll |loll llol llol Jell ller २६२ lfoll lish file For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy