SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ll चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २६१ तृतीय मध्ययनम् iii "स्वामिमोक्षाद्गते विंश-त्यधिकेऽब्दशतद्वये । उत्पन्नस्याऽथ तुर्यस्य, निह्नवस्य कथां ब्रुवे ।।१।।" "तथाहि" नगर्यां मिथिलाख्यायां, चैत्ये लक्ष्मीगृहाभिधे । समवासाघुराचार्याः, श्रीमहागिरिसञ्जका: ।।२।। तेषां शिष्यस्य कोडिन्ना-ख्यस्य शिष्योऽभवत्सुधीः । अश्वमित्राभिधः पूर्व-पठनोद्यतमानसः ।।३।। पूर्व विद्यानुप्रवादा-भिधाने दशमेऽन्यदा । तस्य नैपुणिकं वस्तु, पठतोऽर्थोऽयमागमत् ।। ४।। वर्तमानक्षणगता, जीवा नैरयिकादयः । वैमानिकान्ताः सर्वेऽपि, व्युच्छेत्स्यन्ति क्षणान्तरे ।।५।। इह विप्रतिपन्न: स, प्रत्यपद्यत सर्वथा । जीवादीनां पदार्थानां, समुच्छेदं प्रतिक्षणम् ।।६।। ऊचे च सर्वथा सर्वं, वस्तूत्पन्नमनुक्षणम् । याति नाशं यथा शक्र-चापविद्युद्धनादयः ।।७।। इत्यूचानं तमाचार्याः, स्माहुरेवं महाधियः । सर्वथा वस्तुनो नाशं, मा स्वीकार्षीः प्रतिक्षणम् ।।८।। यतः - "अपरापरपर्यायो-त्पत्तिनाशाद्यपेक्षया । कथञ्चिदेव वस्तूनां, नाशोऽनुक्षणमिष्यते ।।९।।" सर्वथा ह्यर्थविध्वंस-स्वीकारे तु क्षणान्तरे । प्रत्यक्षेण तथारूपः, पदार्थो दृश्यते कथम् ? ।।१०।। "किञ्च" - प्रतिक्षणं वस्तुनाशे, सर्वथा स्वीकृते कथम् । ऐहिक: पारत्रिकश्च, व्यवहारोऽपि सिध्यति ? ।।११।। तथाहि - "भुक्तिप्रारम्भकोऽन्यः स्या-तृप्तिरन्यस्य जायते । अन्यो गच्छति पन्थान-मन्योऽनुभवति श्रमम् ।।१२।।" "पश्यत्यन्यो घटाद्यर्थान्, ज्ञानमन्यस्य जायते । अन्यः प्रारभते कार्य, कर्ता चान्यो भवेज्जनः ।।१३।।" ||ll || IIal २६१ || lifall liall || in Education international For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy