SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् hel चतुरङ्गीयनाम Mon तृतीय २५९ मध्ययनम् अव्यक्तभावं ते सर्वे-ऽन्येषामपि पुरस्तथा । प्ररूपयन्तो व्यहरन्, सममेव यथारुचि ! ।।१७।। ज्ञात्वा विप्रतिपन्नांस्तान्, स्थविराः केचिदूचिरे । अव्यक्तभावाङ्गीकारे, भावो हि भवतामयम् ।।१८।। निर्णेतुं शक्यते किञ्चि-दपि ज्ञानेन नैव यत् । अव्यक्ताः प्रतिपत्तव्या-स्तद्भावाः सकला अपि ! ।।१९।। न चेदं सङ्गतं युष्म-न्मतं युक्तिविरोधतः । यद्वस्तुनिर्णयकर, ज्ञानमेवोपलभ्यते ! ।।२०।। चेद् ज्ञानस्याखिलस्यापि, न स्यानिश्चयकारिता । ज्ञानोपदर्शिता तर्हि, क्रियेयं क्रियते कथम् ? ।।२१।। किञ्च चेत्सर्वथा ज्ञानं, नैव निश्चयकारकम् । तत्कथं प्रत्यहं भक्त-पानादेरपि निश्चयः ? ॥२२।। यतः - "इदं शुद्धमुताशुद्धं, निर्जीवमुत जीवयुक् । इत्यादिकमपि ज्ञानं, विना निश्चीयते न हि ।। २३ ।।" अथ चेद्वहुशो दृष्ट-संवादं व्यवहारतः । उच्यते भक्तपानादे-र्जानं निर्णयकारकम् ।। २४ ।। व्यवहारादेव तर्हि, साध्वादेरपि वस्तुनः । ज्ञानं निर्णयकारीति, कुतो न प्रतिपद्यते ? ।।२५।। छद्मस्थानां हि सर्वा स्या-त्प्रवृत्तिर्व्यवहारतः । तदुच्छेदे तु तीर्थस्या-ऽप्युच्छेदो यत्प्रसज्यते ।।२६।। यदाहुः - "जइ जिणमयं पवजह, ता मा ववहार निच्छए मुअह । ववहार नओच्छेए, तित्थुच्छेओ जओ वस्सं ।। २७॥" व्यवहारं प्रपद्यध्वं, तद्यूयमपि साधवः ! । इत्युक्ता अपि तैर्नेव, तत्यजुस्ते तमाग्रहम् ।।२८।। तत: कायोत्सर्गपूर्व, स्थविरेस्ते बहिष्कृताः । पर्यटन्तोऽन्यदा जग्मुः, पुरं राजगृहाभिधम् ।। २९ ।। ||slil २५९ ||oll foll lo.11 in Education For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy