SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् २५६ Jain Education Intell ततः कायोत्सर्गपूर्व, सूरीन्द्रैः स बहिष्कृतः । पर्याट पृथ्व्यां कुमते-र्जनान् व्युद्ग्राहयन् घनान् ।। २२ ।। पुर्यामामलकल्पायां, सोऽन्यदा पर्यटन् ययौ । आम्रसालवने चास्था-त्स परिच्छदसंयुतः ।। २३ ।। तस्यां पुर्यां च मित्र श्रीसञ्ज्ञोऽभूत् श्रावकाग्रणीः । जिनेन्द्रचरणाम्भोज-भजनैकमधुव्रतः ।। २४ ।। सतं सतन्त्रमायातं श्रुत्वाऽन्यश्रावकैः समम् । तत्रोद्यानेऽगमत्तं च प्रणनाम यथोचितम् ।। २५ ।। तद्देशनां च शुश्राव निह्नवं तं विदन्नपि । तदग्रे तिष्यगुप्तोऽपि निजं प्राकाशयन्मतम् ।। २६ ।। समये बोधयिष्यामि, दृष्टान्तेनेति चिन्तयन् । मित्रश्रीर्न समं तेन विवादं विदधे तदा ।। २७ ।। किन्तु स प्रत्यहं तत्र तं नन्तुं मायया ययौ । समयज्ञा हि कुर्वन्ति, शुभोदर्काय तामपि ।। २८ ।। अथ जेमनवाराऽभू-गरिष्ठा तद्गृहेऽन्यदा । तदोद्याने तमाह्वातुं, मित्रश्रीश्रावको ययौ ।। २९ ।। अद्य यूयं स्वपादाभ्यां पावित्रयत मगृहम् । इत्युक्त्वा सपरीवारं, स्वसौधे च निनाय तम् ।। ३० ।। सोऽथ हृद्यैः खण्डखाद्यै-मोदकाद्यैश्च भूरिभिः । भृतानि बहु पात्राणि, ढोकयामास तत्पुरः ।। ३१ ।। खाद्यस्यैकस्यैकमंशं, तिलमात्रं च तस्य सः । ददावेवं मोदकादेरपि सर्वस्य वस्तुनः ।। ३२ ।। इत्थं कूरस्य सूपस्या- प्येकैकं सिक्थमार्पयत् । घृतस्य बिन्दु शाकस्याप्यंशं तन्तुं पटस्य च ।। ३३ । स तु शिष्ययुतो दध्यौ, नूनं केनापि हेतुना । पूर्वमेवं ददात्येष पश्चात्पूर्णं प्रदास्यति ।। ३४ ।। For Personal & Private Use Only STAFFFFFFFF TO TESTATES चतुरङ्गीयनाम तृतीयमध्ययनम् २५६ Www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy