________________
||
Molचतुरङ्गीयनाम
उत्तराध्ययन
सूत्रम् २५५
Mor तृतीय
मध्ययनम्
160 Isl
oll
||
एकेनापि प्रदेशेन, विहीनाः सकला अपि । जीवप्रदेशा नो जीव-व्यपदेशं लभन्ति चेत् ? ।।९।। तदा स एव वक्तव्यः, प्रदेशो जीवसज्ञया । तद्भाव एव जीवत्वं, भवतीति विनिश्चयात् ।।१०।। ततस्तं प्रोचुराचार्या, वत्साऽयुक्तं ब्रवीषि किम् ? । न कस्य प्रदेशस्य, जीवत्वं युज्यते क्वचित् ।।११।। अंशा निरंशा जीवस्य, प्रदेशा इत्युदीरिताः । घटस्येवाणवस्ते च, तुल्याः सर्वे परस्परम् ।।१२।। तद्विशेषात्कुतस्तस्यै-कस्य जीवत्वमिष्यते ? । पूरणादिति चेत्तन, युक्तं युक्तिविरोधतः ।।१३।। यथायं पूरकस्तद्व-त्सन्ति सर्वेऽपि पूरकाः । तेषामन्यतमेनापि, विना स्याजीवता न यत् ।।१४।। अथान्तिमत्वादिति चेत्, तदपि स्यान्न यौक्तिकम् । अन्तिमत्वं यतस्तस्या-ऽऽपेक्षिकं न तु तात्विकम् ।। १५ ।। आपेक्षिकञ्च नैकत्र, नियतं स्यात्कदाचन । अपेक्षावशतस्तस्य, सर्वत्रापि प्रवर्तनात् ।। १६ ।। तदेकेन विना तेन, जीवत्वं न यथाऽपरे । लभन्ते न तथा सोऽपि, तैविनाप्नोति जीवताम् ।।१७।। ("ततश्च") अणावेकत्र नो कुम्भ-व्यपदेशो भवेद्यथा । तथैकस्मिन्प्रदेशे स्या-निर्देशो नात्मनोपि हि ।।१८।। भवेत्प्रदेशादेकस्मा-त्पूर्णस्यार्थक्रियापि न । पटकार्यं हि नो तन्तो-रेकस्मादुपलभ्यते ।।१९।। तत्कृत्स्नात्मप्रदेशेषु, जीवत्वमिति निश्चितम् । श्रद्धेहि भगवद्वाक्यं, विधेहि सफलं जनुः ।।२०।। एवं प्रज्ञाप्यमानोऽपि, गुरुभिः करुणापरैः । कदाग्रहगृहीत: स, न तत्कुमतमत्यजत् ! ।।२१।।
|Tell ilsil IIslil
Ioll
||61
IIsll
|Roll
२५
all
Ill
Han Join Education international
For Personal Private Use Only