________________
उत्तराध्ययन
सूत्रम्
२५४
Jain Education International
जिन जगt षष्ठकल्पे, सोऽभूत्किल्बिषिकः सुरः । गणी स्माह कुतो घोर तपसोऽप्यऽस्य सा गतिः ? ।। ७१ । । जिनोऽप्यधाद्धर्मगुरू- पाध्यायादेर्विरोधतः । जमालिस्तां गतिं लेभे, कृतभूरितपा अपि ! ।। ७२ ।। ततयुत्वा क्व स स्वामिन् ! यास्यतीति पुनर्जिनम् ? । पप्रच्छ गौतमस्वामी, ततोऽवादीददो विभुः ।। ७३ ।। तिर्यङ्नृनाकिषु भवान् कतिचिद्धमित्वा, सिद्धिं गमिष्यति चिरेण ततश्च्युतोऽसौ ।
प्राप्याऽपि बोधमिति केचन हारयन्ति, तद्देवरत्नमिव दुर्लभ एव बोधि: ।। ७४ ।। इति प्रथमनिह्नवकथा ।। १ ।। "अथ वीरविभोर्ज्ञानात्, षोडशाब्द्या बभूवुषः । निह्नवस्य द्वितीयस्य, वृत्तान्तं वच्मि तद्यथा ।। १ ।। " पुरा पुरे राजगृहे, चैत्ये गुणशिलाभिधे । वसुसञ्ज्ञा महाप्रज्ञाः, सूरयः समवासरन् ।। २ ।। तेषामशेषपूर्वाब्धि- पारगाणां मनस्विनाम् । शिष्योऽभूत्तिष्यगुप्ताख्यः, पूर्वाध्ययनतत्परः ।।३।। पूर्वमात्मप्रवादाख्यं, सप्तमं पठतोऽन्यदा । जीवप्रदेशविषय-स्तस्यार्थोऽयमुपागमत् ।। ४ ।। एक: प्रदेशो जीवस्य, न जीव इति कथ्यते । एवं द्वित्रिचतुष्पञ्च सङ्ख्यातासङ्ख्यका अपि ।। ५ ।। यावत्प्रदेशेनाऽप्यूनो, जीवो जीवो न भण्यते । ऊने वस्तुनि यत्पूर्ण व्यपदेशो न वास्तव: ।। ६ ।। लोकाकाशप्रदेशौघ-तुल्याशेषप्रदेशवान् । जीवः पुनर्जीव इति, वक्तव्यो व्यक्तबुद्धिभिः ।।७।। नमर्थमधीयानो ऽधमकमोंदयेन सः । तदा विप्रतिपेदानः, स्थविरानित्यभाषत ।। ८ ।।
For Personal & Private Use Only
TTTTTTTTTED
॥ चतुरङ्गीयनाम तृतीयमध्ययनम्
TTTTTTTTTTTTTTTTESTS
२५४
www.jainelibrary.org