________________
16ll
उत्तराध्ययन
सूत्रम् २५३
is चतुरङ्गीयनाम
तृतीयमध्ययनम्
llell llell lIsil flell
sil
16ll
भगवन ! भवतः शिष्या-च्छद्मस्था बहवो यथा । परलोकं गता नाह, विज्ञेयः किल तादृशः । ।।५८।। यतोऽहमस्मि सम्प्राप्त-केवलज्ञानदर्शनः । जिनोऽहंश्चेति तेनोक्ते, गौतमस्तमदोऽवदत् ।। ५९।। जमाले ! केवली जात-स्त्वं चेदेतत्तदा वद । लोको जीवश्च किमसौ, शाश्वतोऽशाश्वतोऽथवा ? ।।६।। सोऽथ तस्योत्तरं दातु-मशक्तो मौनमाश्रयत् । ततो जगाद भगवान्, जमाल ! शृणु मद्वचः ।। ६१।। प्रश्नस्यास्योत्तरे मद्व-च्छक्ताः शिष्याः सहस्रशः । छद्मस्थाः सन्ति मे किन्तु, त्वद्वन्नैवं वदन्ति ते ।। ६२।। अत्र प्रत्युत्तरं चेदं, जानीहि त्वं यथातथम् । लोकजीवौ हि विद्येते, शाश्वताशाश्वतौ सदा ।। ६३।। तथा हि द्रव्यरूपेण, लोकः शाश्वत उच्यते । अशाश्वतस्तु पर्याय-परावृत्तेः प्रतिक्षणम् ।। ६४।। द्रव्यरूपेण जीवोऽपि, कथ्यते किल शाश्वतः । नृदेवत्वादिपर्याय-परावृत्तेस्त्वऽशाश्वतः ।। ६५ ।। इति स्वामिवचो नैव, श्रद्दधौ स कदाग्रहात् । प्रभुपाशि निर्गत्य, स्वैरं पर्याट भूतले ।। ६६ ।। निह्नवत्वाञ्च सङ्घना-ऽखिलेनापि बहिष्कृतः । स व्युदग्राहयल्लोकान्, बहुभिः कुमतोक्तिभिः ।। ६७।। एवं जमालिः श्रामण्यं, प्रपाल्य बहुवत्सरान् । प्रान्ते संलेखनामर्ध-मासिकी प्रविधाय च ।। ६८।। तत्पातकमनालोच्य, मृत: षष्ठे सुरालये । त्रयोदश समुद्रायुः, सुरः किल्बिषिकोऽभवत् ।। ६९।। (युग्मम्) विपन्नं तं समाकर्ण्य, प्रभुं पप्रच्छ गौतमः । जमालिरत्युग्रतपाः, कां गतिं गतवानिति ? ।।७०।।
lol
||
llel
llsil Isll Jiol II Isil lol
lel
Isl Ilsil
Ifoll
Jain Education intelmaalonal
For Personal & Private Use Only
www.jainelibrary.org