SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ 161 llsil | || lisil उत्तराध्ययन सूत्रम् २५२ 8 चतुरङ्गीयनाम तृतीयमध्ययनम् 16ll lalll Isl llel Jel Jell lear Jell IIGll II lisa liall Tell ||oll ध्यात्वेति सोऽब्रवीदायें !, विशेषमहमीदृशम् । सम्यग्जानामि नो किन्तु, यूयं जानीथ तद्विदः ।। ४५।। कुलाल: सोऽन्यदा पक्व-भाण्डान्युद्वर्तयन्स्वयम् । स्वाध्यायकरणैकाग्र-श्रीवीरदुहितुः पटे ।। ४६।। चिक्षेप ज्वलदगारं, धीमान्केनाप्यलक्षितम् । ततः पटं दह्यमानं, वीक्ष्य सा वतिनी जगौ ।। ४७।। (युग्मम्) सङ्घाटी मम दग्धेयं, भो टण्क ! त्वत्प्रमादतः । टण्कोऽवादीद्दह्यमाना, दग्धेति प्रोच्यते कथम् ? ।। ४८।। भवन्मते हि सम्पूर्ण-सङ्घाटीदहने खलु । दग्धा सङ्घाटीति, वक्तुं, युक्तं न पुनरन्यथा ! ॥४९।। अथ चेद्भगवद्वाक्यं, स्वीक्रियेत तदा ह्यदः । वक्तुं युज्येत तद्विश्व-मान्यं तत्प्रतिपद्यताम् ।।५०।। तन्निशम्य गलन्मिथ्या-दर्शना प्रियदर्शना । इत्यवादीदहो आर्य !, साध्वहं बोधिता त्वया ! ।।५।। अतः परं जैनवचः, प्रमाणं मे जगद्धितम् । यत्तु तद्दूषितं तस्य, मिथ्यादुष्कृतमस्तु मे ! ।।२।। इत्युक्त्वा सा ययौ पार्श्वे, जमाले: सपरिच्छदा । तस्याग्रे चावदन्नका, युक्तीर्जिनमतानुगाः ।।५३।। तस्या वचोभिरपि स, नामुचत्तं कदाग्रहम् । रसोन इव दुर्गन्धं, सुगन्धिद्रव्यवासनः ।।५४।। ततः सा सपरीवारा, गतशेषाश्च साधवः । हित्वा दुर्मतमग्नं तं, श्रीमहावीरमाश्रयत् ।। ५५।। तदा च भगवांश्चम्पानगरी पावयन्नभूत् । जमालिरपि नीरोग-श्चम्पायामगमत्ततः ।। ५६।। तत्र चैत्ये पूर्णभद्रा-ऽभिधाने तस्थुषोऽर्हतः । पार्श्वे गत्वा नातिदूरे, स्थित्वा चैवमुवाच सः ।। ५७।। Well isil Ilsil 16ll Iel islil Jel llel Jel IGll २५२ ||sl llel Del For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy