________________
उत्तराध्ययन
सूत्रम् २५०
1191 || Ill || lol
6 चतुरङ्गीयनाम 6 तृतीयall
lol llol
No- मध्ययनम्
lIsl
16 lroll
leil
liall
'क्रियमाणैः कृतमिति', श्रीमहावीरभाषितम् । मिथ्याध्यक्षविरुद्धत्वा-च्छत्यं हुतभुजो यथा ! ।।१९।। न चाध्यक्षविरुद्धत्वं, तस्यसिद्धं भवेत्क्वचित् । संस्तारको यत्संस्तीर्य-माणोऽप्येष न संस्तृतः ।।२०।। निष्पद्यते क्षणव्यूहै-र्यत्कार्यमपरापरैः । तत्कथं कृतमित्याद्य-समयेऽपि निगद्यते ? ।।२१।। प्रारम्भेऽपि कृतं चेत्स्या-त्तदाऽन्यत्र क्षणव्रजे । कृतस्यैव विधानेना-ऽनवस्था स्यादनाहता ! ।।२२।। सत्यप्येवं मन्यते चे-त्क्रियमाणं कृतं तदा । घटादेरुपलम्भोऽस्तु, प्रारम्भक्षण एव हि ।। २३।। 'कृतमेव कृतं' तस्मा-द्यौक्तिकं भो महर्षयः ! । तदमुं मामकं पक्षं, कक्षीकुरुत सूनृतम् ! ।। २४ ।। न च वाच्यं स सर्वज्ञः, कथं मिथ्यावदेदिति ? । यदयात्सोऽपि तज्जातु, महान्तोऽपि स्खलन्ति हि ।।२५।। एवं विप्रवदन्तं तं, जमालिं मार्गविच्युतम् । स्थविरा: प्रोचुरार्य ! त्वं, विरुद्धं किं वदस्यदः ? ।।२६।। रागद्वेषविनिर्मुक्ता, न भाषन्ते मृषा जिनाः । वचनेऽपि च नो तेषां, दोषलेशोऽपि सम्भवेत् ।। २७।। (तथाहि-) आद्यक्षणे चेत्कार्यस्यो-त्पत्तिर्न स्यात्तदा कथम् । क्षणान्तरे तदुत्पत्तिः, स्यात्क्षणत्वाविशेषतः ? ।। २८।। उक्तञ्च - "आद्यतन्तुप्रवेशे च, नोतं किञ्चिद्यदा पटे । अन्त्यतन्तुप्रवेशेऽपि, नोतं स्यान्न पटोदयः ।। २९।।" न चाऽध्यक्षविरोधोऽपि, सम्भवेदिह कहिंचित् । संस्तीर्यते यद्वस्त्रादि, तद्धि संस्तृतमेव यत् ।। ३०।। यावत् प्राक् संस्तृतं तावत्, पुनः संस्तीर्यते न यत् । ततः कृतस्याऽकरणा-वाऽनवस्थापि विद्यते ।। ३१।।
Ill 161
i
||६|| ||sil
Usil Isl
||
|| ||sil Isil
lish 16 ||6|
२५०
liell llell
leell
alll
Man
www.jainelibrary.org
Inn Education International
For Personal & Private Use Only