SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् २४७ on तृतीय ला माणुस्सं विग्गहं लड़े, सुइ धम्मस्स दुल्लहा । जं सुचा पडिवखंति, तवं खंतिमहिंसयं ।।८।। ॥ चतुरङ्गीयनाम व्याख्या - 'माणुस्संति' सूत्रत्वान्मानुष्यकं मनुष्यभवसम्बन्धिनं विग्रहं देहं, 'लढुंति' लब्ध्वाऽपि, अपेर्गम्यत्वात्, श्रुतिः श्रवणं, धर्मस्य दुर्लभा lal मध्ययनम् 6. दुष्पापा पूर्वोक्तालस्यादिहेतुभिः, स च धर्म: "मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराह्ने । द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते is शाक्यसिंहेन दृष्टः ।।१॥" इत्यादिबौद्धादिकल्पितोऽपि स्यादतस्तदपोहार्थमाह-यं धर्मं श्रुत्वा प्रतिपद्यन्ते भव्या इति शेषः, तपोऽनशनादि । 6 द्वादशविधं, शान्तिं क्रोधजयलक्षणां, मानादिजयोपलक्षणञ्चैषा, अहिंस्रतां हिंसनशीलत्वाभावं, अनेन प्रथमव्रतमुक्तं, शेषव्रतोपलक्षणीतत्, leol M एतद्वृत्तितुल्यानि हि शेषव्रतानि, एवञ्च तपसः क्षान्तिप्रभृतिचतुष्टयस्य महाव्रतपञ्चकस्य चाभिधानाद्दशविधोऽपि धर्मोऽभ्यधायीति सूत्रार्थः ।।८।। ISM श्रुतिप्राप्तावपि श्रद्धा दुर्लभेत्याह - llol __ आहञ्च सवणं लद्धं, सद्धा परमदुल्लहा । सोचा नेआउअं मग्गं, बहवे परभस्सई ।।९।। व्याख्या - 'आह' कदाचित् श्रवणं प्रक्रमाद्धर्मस्याकर्णनं, उपलक्षणत्वान्मानुष्यं च, 'लद्धंति' अपिशब्दस्य गम्यमानत्वात् । लब्ध्वाप्यवाप्यापि श्रद्धा धर्मरुचिरूपा परमदुर्लभातीवदुरापा, कुतः पुनः परमदुर्लभत्वमस्या इत्याह-श्रुत्वाकर्ण्य नैयायिकं न्यायोपपत्रं मार्ग fol सम्यग्दर्शनादिरूपं मुक्तिपथं बहवोऽनेके 'परिभस्सइत्ति' परिभ्रश्यन्ति च्यवन्ते, प्रक्रमानैयायिकमार्गादेव । यथा जमालिप्रभृतयः, यश । non प्राप्तमप्यपैति तचिन्तामणिवत्परमदुर्लभमेवेतिभावः । अथ के ते जमालिप्रभृतय इति तद्वक्तव्यता लिख्यते, तद्यथा-"बहुरय जमालि पभवा १, llol Isill Illl Ill Isl JainEducation international For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy