SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् २४६ ופיון loll ॥७॥ आवर्तयनयस्तासु, प्राणिनः जीवाः, कर्मणा क्लिष्टेन किल्विषाः - अधमाः कर्मकिल्विषाः, न निर्विद्यन्ते कदैतस्मात्पर्यटनान्मोक्षो भावीति नोद्विजन्ते, संसारे भवे, केष्विव के ? सर्वे च ते अर्थाश्च धनकनकादयः सर्वार्थाः तेष्विव क्षत्रियाः राजानः, अयं भावः यथा मनोज्ञान् शब्दादीन् भुञ्जानानां तेषां तृष्णा वर्धते एवं तासु तासु योनिषु पुनः पुनरुत्पत्तिमनुभवतामपि संसारिणां, कथमन्यथा ते तत्प्रतिघातार्थं नोद्यमं कुर्युः ? इति सूत्रार्थः । । ५ । । ततश्चकम्मसंहिं संमूढा, दुक्खआ बहुवेअणा । अमाणुसासु जोणीसु, विणिहम्मंति पाणिणो ।। ६ ।। व्याख्या – कर्मसङ्गैर्ज्ञानावरणीयादिकर्मसम्बन्धैः सम्मूढाः अत्यर्थं मूढाः दुःखिता असातयुक्ताः, कदाचित्तन्मानसमेवैकं स्यादित्याह-बहुवेदना भूरिशारीरपीडाः, अमानुषीषु नरकतिर्यगाभियोग्यादिदेवदुर्गतिसम्बन्धिनीषु योनिषु विनिहन्यन्ते, विशेषेण निपात्यन्ते, अर्थात्कर्मभिः न तु ताभ्य उत्तारं लभन्ते प्राणिनो जीवास्ततो दुर्लभमेव मानवत्वमिति सूत्रार्थः ।। ६ ।। कथं तर्हि तदवाप्तिरित्याह - कम्माणं तु पहाणाए, आणुपुव्वी कयाइ उ । जीवा सोहिमणुप्पत्ता, आययंति मणुस्यं ।।७।। व्याख्या - कर्मणां तु पुनर्नरकगतिप्रतिबन्धकानामनन्तानुबन्ध्यादीनां 'पहाणाएत्ति' प्रहाण्या अपगमेन, कथं प्रहाणिरित्याह- आनुपूर्व्या ॥ क्रमेण, न तु झगित्येव, अत एवाह 'कयाइउत्ति' तु शब्द एवकारार्थे, ततः कदाचिदेव न सर्वदा जीवाः प्राणिनः शुद्धिं क्लिष्टकर्मापगमात्मिकां, अनुप्राप्ताः सम्प्राप्ताः आददते स्वीकुर्वन्ति मनुष्यतां मनुजजन्म, विशिष्टशुद्धिनिबन्धनैस्तनुकषायत्वादिभिरेव तदायुर्बन्धादिति सूत्रार्थः ।। ७।। एवं कथञ्चिन्मनुष्ये प्राप्तेऽपि श्रुतिदुर्लभेत्याह Jain Education International For Personal & Private Use Only चतुरङ्गीयनाम तृतीय मध्ययनम् २४६ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy