________________
उत्तराध्ययन
सूत्रम्
मध्ययनम्
एगया देवलोएसु, नरएसुवि एगया । एगया आसुरं कायं अहाकम्मेहिं गच्छइ ।।३।।
ial चतुरङ्गीयनाम
तृतीयव्याख्या - एकदा शुभकर्मानुभवकाले देवलोकेषु सौधर्मादिषु, नरकेषु च रत्नप्रभादिषु, अपिशब्दश्चकारार्थे, एकदा दुष्कर्मोदयकाले, एकदा ॥ Hel 'आसुरं' असुरसम्बन्धिनं कायं निकायं, 'अहाकम्मेहिति' यथाकर्मभिस्तत्तद्गत्यनुरूपचेष्टितैर्यथायोगं सरागसंयममहारम्भ-बालतपःप्रभृतिभिः, in Mel 'गच्छइत्ति' वचनव्यत्ययाद्गच्छन्ति प्राणिन इत्युत्तरेण योग इति सूत्रार्थः ।।३।।
एगया खत्तिओ होई, तओ चंडालबोक्कसो । तओ कीडपयंगो अ, तओ कुंथुपिवीलिआ ।।४।।
व्याख्या - एकदा क्षत्रियो राजा भवति, जन्तुरिति गम्यं, सूत्रवैचित्र्याबहुचनप्रकमेप्येकवचनं, ततस्तदनन्तरं चण्डालो मातङ्गः, यता ॥ शूद्रेण ब्राह्मण्या जातश्चण्डालः, बोक्कसो वर्णान्तरसङ्करजन्मा, तथाहि-ब्राह्मणेन शूद्रयां जातो निषादः, ब्राह्मणेनैव वैश्यस्त्रियां जातश्चाम्बष्ठ । ॥ इत्युच्यते । तत्र निषादेनाम्बष्ठ्यां जातस्तु बोक्कसो भण्यत इति वृद्धवादः । इह च क्षत्रियचाण्डालबोक्कसग्रहणाद्यथाक्रमं सर्वा 6 उच्चनीचसङ्कीर्णजातय उपलक्षिताः । ततः कीट: प्रसिद्धः, पतङ्गः शलभः, चः समुझये, कुन्थुः, पिपीलिका च, भवतीति योज्यं, - अशेषतिर्यग्भेदोपलक्षणञ्चेदमिति सूत्रार्थः ।। ४।। इत्थं सर्वत्र पर्यटन्तोऽपि गुरुकर्मत्वेन ते न निर्विद्यन्ते इत्याह -
एवमावट्टजोणीसु, पाणिणो कम्मकिब्बिसा । न निविजंति संसारे, सबढेसु व खत्तिआ ।।५।। व्याख्या - एवम्, अनेन न्यायेन 'आवर्तः' पुनः पुनर्धमणरूपः परिवर्तस्तत्प्रधाना योनयश्चतुरशीतिलक्षप्रमाणानि जीवोत्पत्तिस्थानानि २४५
lol
||sil
liroll ||७|| lish llel Hal
For Personal Private Use Only