SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ lall ||6ll उत्तराध्ययन lIsil oull सूत्रम् 16ll 16ll २४४ in तृतीय स्तम्भो यथाऽसौ परमाणुभिस्तैः, केनापि निष्पादयितुं न शक्यः । प्रमादिना प्राणभृता तथैव, भूयोऽपि लभ्येत न मानवत्वम् ।।६।। इति ।। चतुरङ्गीयनाम यद्वा काऽपि सभा भूरि-स्तम्भा दग्धा कृशानुना । तैरैव पुद्गलैर्न स्या-त्तथा नृत्वेऽपि भावना ।।७।। lol मध्ययनम् Isll इति वा परमाणुदृष्टान्तो दशमः ।।१०।। इत्थं जिनेन्द्रगदितानि मनुष्यजन्म-दौर्लभ्यसूचनचणानि निदर्शनानि । आकर्ण्य भो भविजना: ! भगवत्प्रणीते, धर्मे महोदयकरे कुरुत प्रयत्नम् ।।६२६ ।। इति दश दृष्टान्ताः सम्पूर्णाः । तत्र यथा मानुषत्वं दुर्लभं तथा दर्शयितुमाह - समावण्णा ण संसारे, नाणागुत्तासु जाइसु । कम्मा नाणाविहा कट्ट, पुढो विस्संभिआ पया ।।२।। व्याख्या - समापन्नाः समन्तात्प्राप्ताः प्रजा इति योगः, मानुष्यमिति गम्यते, 'णेति' वाक्यालङ्कारे, क्वेत्याह संसारे भवे, तत्रापि क्वेत्याहill ॥ नानागोत्रासु अनेकाभिधानासु जातिषु क्षत्रियादिषु, अत्र हेतुमाह-कर्माणि ज्ञानावरणीयादीनि नानाविधानि अनेकप्रकाराणि कृत्वा निवर्त्य ! 6 तेषामधीनाः सन्तः 'पुढोत्ति' पृथक्भेदेन एकैकश इत्यर्थः, 'विस्संभिअत्ति' प्राकृतत्वादनुस्वारलोपे विश्वभृतो जगत्पूरका वर्तन्ते इति शेषः, कि क्वचित्कदाचिदुत्पत्त्या सर्वजगह्यापनादुक्तं च - "नत्थि किर सो पएसो, लोए वालग्गकोडिमित्तोवि । जम्मणमरणबाहा, जत्थ जिएहिं न संपत्ता ॥१॥" ततोऽवाप्याऽपि नरजन्म स्वकृतकर्मानुभावतोऽन्यान्यगतिभागिन्य एव प्रजा जनसमूहरूपा भवन्तीति दुर्लभमेव पुनर्नरजन्मेति सूत्रार्थः |२।। एतदेव स्पष्टयति - || २४४ |lol lloll llol Ilal Ifoll Join Education international For Personal Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy