________________
उत्तराध्ययन
सूत्रम्
२४३
IIM I161
llel
likel lis
lel
sil llsil
Isl ||७||
कूर्मः पुनस्तत्र लभेत रन्ध्र, पश्येच पूर्णं शशिनं कदाचित् । परिच्युतो मर्त्यभवानरत्वं, लभेत जन्तुर्न तु धर्महीनः ! ।।९।। ॥ चतुरङ्गीयनाम इति चर्मदृष्टान्तोऽष्टमः ।।८।। अथ युगदृष्टान्तः तथा हि -
तृतीय
मध्ययनम् अस्ति स्वयम्भुरमण-वारिधिर्वलयाकृतिः । सहस्रयोजनोद्वेधो-ऽसङ्ख्ययोजनविस्तृतः ।।१।। विहाय वलयं सर्वाकारैर्जलचरे ते । सर्वेषामपि वार्डीना-मन्तिमे तत्र नीरधो ।।२।। देवः कोऽपि दिशि प्राच्या, लीलया निक्षिपेद्युगम् । युगस्य तस्य ककुभि, पश्चिमायां च कीलिकाम् ।।३।। (युग्मम्) तस्मिन्नपारेऽकूपारे, भ्राम्यन्ती समिलाऽथ सा । स्वयमेव युगच्छिद्रे, प्रविशेत्किं कदाचन ? ।।४।। प्रचण्डवातोत्थितवीचिनुन्ना, देवात्स्वयं साऽपि युगस्य रन्ध्रे । कुर्यात्प्रवेशं न तु पुण्यहीनः, पुमान्पुनर्विन्दति मर्त्यभावम् ! ।।५।। इति युगदृष्टान्तो नवमः ।।९।। अथ परमाणुदृष्टान्तस्तथा हि - स्तम्भमेकं महामानं, माणिक्यमयमुत्तमम् । स्वसामर्थ्यपरीक्षार्थं, गीर्वाण: कोप्यचूर्णयत् ।।१।। तश चूर्णमतिश्लक्ष्णं, निर्माय परमाणुवत् । नलिकान्तर्निचिक्षेप, क्षेपीयः स सुधाशनः ।।२।। आरुह्य मेरुचूलायां, सोऽथ फूत्कृतमारुतैः । द्रुतमुल्लालयामास, तञ्चूर्ण परितोऽखिलम् ।।३।। तेन देवेन विक्षिप्ता-स्ततस्ते परमाणवः । प्रचण्डपवनोद्भूता, अभजन्त दिशोदिशम् ।।४।। अथ विश्वत्रये कोऽपि, शक्तिमान् विद्यते न सः । यस्तं स्तम्भं पुनः कुर्या-तैरेव परमाणुभिः ।।५।।
foll
Ifoll isill islil
6. Isl
Isl
||oll
6ll
llsl
Isll ell
For Personal Private Use Only
www.jainelibrary.org