________________
Illl Isil
Mei
का चतुरङ्गीयनाम
उत्तराध्ययन
सूत्रम् २४१
lifal ||sll ||61
in तृतीय
lol
Moli
मध्ययनम्
|| ill
l
ial
sill
Ioll
IIGll
lol
IMel
lel
अधिजीकृत्य तत्सत्य-सन्धः सन्धाय चाशुगम् । ऊर्ध्वमुष्टिरधोदृष्टि-स्तत्र तस्थौ च भूपभूः ।।७६।। दध्यौ निर्वृत्तिकन्याऽपि, वीक्ष्य तं रूपमन्मथम् । अहो रूपमहो कान्ति-रहो लावण्यमद्भुतम् ! ।। ७७।। एष विध्यति चेद्राधा, तत्कृतार्था भवाम्यहम् । ध्यायन्तीति तदेकाग्र-चित्तासीद्योगिनीव सा ।। ७८।। तदा च तत्समीपस्था, दासेरास्ते चतुर्दिशम् । चक्रुः कोलाहलं प्रोचैस्तालिकास्फालनादिना ।। ७९।। तेऽपि द्वाविंशती राज-सुता उल्लण्ठभाषणैः । असौ विध्यतु मा राधा-मित्यपायान् वितेनिरे ।।८।। स्खलिते सति ते शीर्ष, छेत्स्याव इति वादिनौ । पार्श्वयोस्तस्थतुस्तस्य, खड्गव्यग्रकरो नरौ ।। ८१।। समीपस्थः कलाचार्यो-ऽप्येवं स्माह मुहुर्मुहुः । स्खलिते ते वधो भावी, तद्भूयास्त्वं समाहितः ।। ८२।। दासेरांस्तान् कुमारांश्चा-ऽगणयन् सुभटौ च तौ । कुण्डिकातैलसङ्क्रान्त-चक्रान्तर्यस्तलोचनः ।। ८३।। लक्ष्ये निरुद्धया दृष्ट्या, ज्ञात्वा चक्राष्टकान्तरम् । तदेकानमनाः सद्यः, कुमारो व्यमुचच्छरम् ।। ८४ ।। (युग्मम्) प्रविश्य तेषां चक्राणा-मन्तराले शरोऽपि सः । क्षणाद्विव्याध राधाया, वामनेत्रकनीनिकाम् ।। ८५।। ततो लोकैः प्रमुदितै-श्चक्रे जयजयारवः । तदैकाग्र्यकरस्थैर्य-लघुहस्तत्वशंसिभिः ।। ८६।। तदा निर्वृत्तिकन्याऽपि, मुखे तस्य प्रमोदभाक् । कटाक्षमालिकां न्यास्थ-त्कण्ठे तु कुसुमस्त्रजम् ।। ८७।। तमोभिरिव लोकस्य, सुतैरेभिरभून्मम । यन्मालिन्यं तदा पूर्ण-विधुनेव त्वया हृतम् ।। ८८।।
licill ||Gll Ill ||Gll
s
el
ill ||
Ildall
IGN
lol
||७|| Illl
Ill Ilall
WooM
Jell
lell
२४१
all llol
leel
16ll ational
MoM
Jan Education n
For Personal & Private Use Only
www.jainelibrary.org