________________
उत्तराध्ययन
सूत्रम् २३८
Is चतुरङ्गीयनाम कि तृतीयMH मध्ययनम्
सा प्रोचे यः पुमान् राधा-वेधं साधयति स्फुटम् । स्वामिन्नहं वरिष्यामि, तं वरं वसुधावरम् ।।३८।। तत इन्द्रपुराधीश-स्येन्द्रदत्तस्य भूभुजः । कलाभ्यासपरान् भूय-स्तरानाकर्ण्य नन्दनान् ।।३९।। जितशत्रुनृपस्तत्र, गन्तुं प्रातिष्ठिपत्सुताम् । युक्तां वृद्धः कुलामात्यै-श्चतुरङ्गचमूवृताम् ।। ४०।। (युग्मम्) क्रमादिन्द्रपुरे साऽगा-दिन्द्रदत्तनृपोऽपि ताम् । पुरे प्रावीविशत्तुष्ट-चेता गुरुभिरुत्सवैः ।। ४१।। दध्यौ चाऽशेषभूपेभ्यः, कृतपुण्योऽस्मि नन्वहम् । यत्कनीयं विहायान्या-न्मत्सुतं परिणेष्यति ! ।। ४२।। ध्यायन्निति प्रतिज्ञां च, तस्यास्तामवधारयन् । अकारयनृपो भव्यं, स्वयंवरणमण्डपम् ।। ४३।। काञ्चनस्तम्भसंलग्न-चञ्चन्माणिक्यतोरणे । मौक्तिकस्वस्तिकश्रेणी-दन्तुरीभूतभूतले ।। ४४ ।। सुगन्धिपञ्चवर्णाढ्य-पुष्पप्रकरपूजिते । विचित्रोल्लोचरचना-चित्रीयितजगत्त्रये ।। ४५।। अकाण्डोद्भूतसन्ध्याभ्र-पटलभ्रान्तिकारिभिः । अभ्रंलिहै: पञ्चवर्णः, केतुल:विभूषिते ।। ४६।। तस्मिंश्च मण्डपे शक्रा-स्थानमण्डपसन्निभे । इन्द्रदत्तो नृपः स्तम्भ-मेकमुचैरतिष्ठिपत् ।। ४७।। (चतुर्भिः कलापकम्) चत्वारि सृष्ट्या चत्वारि, संहत्या चातिवेगतः । भ्राम्यन्ति लोहचक्राणि, स्तम्भोर्ध्वं च न्यवीविशत् ।। ४८।। तेषां चोपरि राधेति-प्रसिद्धां शालभञ्जिकाम् । अस्थापयदधस्ताच, तैलसम्पूर्ण कुण्डिकाम् ।। ४९।। कुण्डीतैलस्थचक्रादि-प्रतिबिम्बानुसारतः । राधाया वामनयनं, वेध्यं तत्र च साधकैः ।।५०।।
॥७॥
llol lloll lifoll
२३८
leel
For Personal Private Use Only
liel