SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ७॥ चतुरङ्गीयनाम lall उत्तराध्ययन सूत्रम् २३५ तृतीय is 16ll ell मध्ययनम् ||sl lel 16 Isl ell 115 Ilasil |s इति स्वप्नदृष्टान्तः षष्ठः ।।६।। अथ 'चक्केत्ति' पदसूचितो राधावेधदृष्टान्तस्तथा हि - अभूदिन्द्रपुरं नाम, पुरमिन्द्रपुरोपमम् । नृपस्तत्रेन्द्रदत्ताह्वो, बभूवेन्द्र इव श्रिया ।।१।। राजस्तस्याऽभवन् बढ्यो, वल्लभाः प्राणवल्लभाः । सुता द्वाविंशतिस्तासा-मासन् पृथ्वीपतिप्रियाः ।।२।। तांस्तु सर्वानपि नृपो, महोत्सवपुरस्सरम् । कलाभ्यासार्थममुच-त्कलाचार्यस्य सन्निधौ ।।३।। स च भूपोऽन्यदा प्रेक्ष्य, मन्त्रिपुत्री मनोरमाम् । उपयेमे तां च मन्त्री, दीर्घदर्शीत्यशिक्षयत् ।। ४।। यदा गर्भसमुत्पत्ति-र्जायते तव हे सुते ! । तदा दिनादिकं सर्व-मपि ज्ञाप्यं त्वया मम ।।५।। प्रतिपेदे पितुर्वाणी, तथाऽमात्यसुताऽपि ताम् । नोद्वाहमनु भूपस्तु, तां पस्पर्श ददर्श च ।।६।। बहुप्रियो भूप्रियस्तां, सस्माराऽपि न कर्हिचित् ! । भूरिभार्यस्य किं कार्य, तस्य न स्यात् विनापि ताम् ? ।।७।। अन्यदा तामृतस्त्रातां, ददर्श पृथिवीपतिः । वधूः कस्येयमित्यन्याः, पप्रच्छ च निजप्रियाः ।।८।। प्रभो ! तवैव पत्नीय-मिति ताभिरुदीरिते । तयैव सह तां रात्रि-मुवासाऽवनिवासवः ।।९।। तत्रैव रात्रौ सा गर्भ, बभार नृपसङ्गमात् । स्वातिपाथोमुचः सङ्गा-च्छुक्तिर्मुक्तामणीमिव ।।१०।। गर्भसम्भवकालं तं, साऽथ पित्रे न्यवेदयत् । अभिज्ञानार्थमुर्वीश-प्रोक्तानि वचनानि च ।।११।। साभिज्ञानं धीसखोऽपि, तत्सर्वं पत्रके लिखत् । नृपाज्ञयाऽऽनयत्तां च, स्वगेहे प्रसवोन्मुखीम् ।।१२।। lish ||5|| leil lol २३५ ||Gll lls la Jain Education International Isl www.jainelibrary.org For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy