________________
उत्तराध्ययन
सूत्रम् २३२
Holl iel चतुरङ्गीयनाम ||६||
तृतीयमध्ययनम्
|oll
इत्युदित्वा देवदत्ता, समाकार्य नृपोऽलपत् । भद्रे ! चिरेण सम्पूर्णं, तव चेतःसमीहितम् ! ।। २२७ ।। देवतादत्तराज्यश्री:, प्राहिणोन्मूलदेवराट् । त्वामानेतुं निजं मर्त्य, तत्त्वया तत्र गम्यताम् ।। २२८ ।। इत्यवन्तीनृपेणोक्ता, सागाद्वेण्णातट क्रमात् । तां च प्रावीविशन्मूल-देवराट् सोत्सवं पुरे ।। २२९ ।। सोऽथ वैषयिकं सौख्यं, भुञ्जानो देवदत्तया । धर्मकृत्यं व्यधान्नित्य-मर्हचैत्यार्चनादिकम् ।। २३०।। इतश्चागण्यपण्यौघं, भृत्वा पारसकूलतः । आगाद्वेण्णातटेऽन्येद्युः, सार्थवाहोऽचलाह्वयः ।। २३१।। किं नामात्र नृपोऽस्तीति, तत्र लोकान् स पृष्टवान् । राजा विक्रमराजाख्यो, वर्ततेऽत्रेति ते जगुः ।। २३२।। ततः स्वर्णमणीमुक्ता-भृतस्थालोपदां दधत् । मापालं प्रेक्षितुं सोऽगा-द्भूपोप्यासनमार्पयत् ।। २३३।। तमुपालक्षयन्मङ्घ, भूपो भूपं तु नाऽचलः । श्रेष्ठिन् ! कुतस्त्वमायासी-रित्यप्राक्षीनृपोऽथ तम् ।। २३४ ।। प्रत्युवाचाऽचल: स्वामि-त्रागां पारसकूलतः । ततस्तं वार्तयामास, प्रजानाथः सगौरवम् ।। २३५ ।। भाण्डं दर्शयितुं पञ्च-कुले तेनाऽथ याचिते । भूपोऽभ्यधात्समेष्यामः, कौतुकेन स्वयं वयम् ।। २३६।। महाप्रसाद इत्युक्तेऽचलेनाऽथ नृपो ययौ । तत्सार्थस्थानमास्थानं, धियां पञ्चकुलान्वितः ।। २३७।। मञ्जिष्ठाक्रमुकादीनि, सोऽपि भाण्डान्यदर्शयत् । ततोऽवदन्नृपो भाण्ड-मिदमेवास्ति किं तव ? ।। २३८ ।। भाण्डं ममेदमेवास्ती-त्युक्ते तेन नृपोऽवदत् । सत्यं ब्रूया न चेच्छुल्क-चौर्यां विग्रहनिग्रहः ।। २३९ ।।
llel
Itall livall Balll Hell
||७||
Boll Nell
leil Isl 16
sil
leel
llsil Isil
२३२
Wall wall
||sil
16 sil
www.jainelibrary.org
min Education International
For Personal & Private Use Only