SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ ill चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २२८ तृतीय lol मध्ययनम् मूलदेवोऽपि तां देवी-मवादीन्मुदितस्ततः । देहि वेश्यां देवदत्तां, राज्यञ्चेभसहस्त्रयुक् ।।१७६।। देव्युवाचाऽचिरादेव, लप्स्यसे सर्वमप्यदः । मूलदेवस्तत: साधु, नत्वा ग्रामेऽगमत्पुनः ।।१७७।। भिक्षां तत्राऽपरां प्राप्य, भुक्त्वा च स पुरो व्रजन् । प्राप वेण्णातटं पान्थ-शालायां तत्र चास्वपीत् ।। १७८ ।। निशायाश्चान्तिमे यामे, पूर्णेन्दु निर्मलद्युतिम् । स्वप्नेऽपश्यन्मूलदेवः, प्रविशन्तं निजानने ।।१७९।। तदा कार्पटिको-ऽप्येकोऽद्राक्षीत्स्वप्नं तमेव हि । विनिद्रः स तु पप्रच्छा-ऽन्येषां स्वप्नफलं ततः ।।१८०।। स्वप्नार्थं तस्य तत्रैव-मेकः कार्पटिकोऽवदत् । मण्डकं साज्यमद्य त्वं, खण्डायुक्तं च लप्स्यसे ! ।।१८१।। स च कार्पटिकः प्राप, तावताऽपि परां मुदम् । मूलदेवस्तु मूढानां, नो तेषां स्वप्नमब्रवीत् ।। १८२।। सोऽथ कार्पटिको लेभे, गेहाच्छादनकर्मणि । यथोक्तं मण्डकं तञ्चा-ऽन्येषां स्वेषां न्यवेदयत् ।। १८३।। प्रत्यूषे मूलदेवस्तु, गत्वोद्याने धिया निधिः । मालिकं प्रीणयामास, कुसुमावचयादिना ।। १८४।। तुष्टस्तस्मै मालिकोऽपि, वरपुष्पफलान्यदात् । तान्यादायाऽगमत्स्वप्न-शास्त्रकोविदधाम्नि सः ।।१८५।। नत्वा दत्वा च पुष्पादि, पाठकाय न्यवेदयत् । मूलदेवो निजं स्वप्नं, सोऽपि हष्टोऽब्रवीदिति ।। १८६।। वत्स ! वक्ष्याम्यहं स्वप्न-फलं तव शुभे क्षणे । अद्यातिथी भवास्माकं, सोऽपि तत्प्रत्यपद्यत ।। १८७।। ततस्तं स्नपयित्वा च, भोजयित्वा च सादरम् । उपाध्यायोऽभ्यधावत्स !, कन्येयं परिणीयताम् ।। १८८।। ||sil ||sil २२८ llol llsil Is llell For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy