SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् २२७ ||७|| Ifoll l चतुरङ्गीयनाम तृतीय||Gll मध्ययनम् Islil 16lll lell llol ||61 lifoll llll foll Ikal INSI || Ifoll अहं निर्गुण शर्मेति, जनैर्दत्तापराभिधः । द्विजोऽस्मि सद्धडो नामे-त्युदित्वा सोगमत्ततः ।। १६३।। प्रति वेण्णातटं गच्छन्, मूलदेवस्ततोऽन्तरा । वसन्तं ग्राममैक्षिष्ट, भिक्षार्थं तत्र चागमत् ।।१६४।। भ्रामं भ्रामं तत्र लेभे, कुल्माषानेव केवलान् । तानादाय प्रतस्थेऽथ, मूलः प्रति जलाशयम् ।। १६५ ।। अत्रान्तरे तपस्तेज-स्तरणिं शान्तचेतसम् । मासोपवासिनं साधु-मायान्तं ग्रामसम्मुखम् ।। १६६।। समीक्ष्य मुदितो मूल-देव एवमचिन्तयत् । धन्योऽहं यन्मया दृष्टः, समयेऽस्मिन्नसो मुनिः ।। १६७ ।। (युग्मम्) यथा भवेन्मरुस्थल्यां, दुर्लभस्त्रिदशद्रुमः । तथारत्नत्रयाधारः, स्थानेऽत्रासो महामुनिः । ।। १६८।। ग्रामेऽस्मिन्कृपणे किञ्चि-दप्यसौ न च लप्स्यते । लप्स्येऽहं तु पुनर्भोज्य-मत्र वाऽन्यत्र वा भ्रमन् ।। १६९।। इमान् विशुद्धान् कुल्माषां-स्तद्दत्वाऽस्मै महात्मने । विवेकशाखिनं कुर्वे-5 चिरात्सफलमात्मनः ! ।।१७०।। ध्यात्वेत्युद्गतरोमाञ्चः, प्रमोदाश्रुविमिश्रदृक् । भक्तिपूर्वं मूलदेवो, मुनिं नत्वैवमब्रवीत् ।।१७१।। व्यसनाम्भोधिपतिते, मयि कृत्वा कृपां प्रभो ! । एतानादत्स्व कुल्माषा-न्माञ्च निस्तारय द्रुतम् ! ।।१७२।। द्रव्यादिशुद्धिं विज्ञाय, ततस्तानाददे यतिः । ततः प्रमुदितो मूल-देव एवमवोचत ।।१७३।। धन्यानां हि नराणां स्युः, कुल्माषा: साधु पारणे । तदा च वीक्ष्य तद्भक्तिं, हृष्टा काऽपि सुरीत्यवक् ।। १७४।। वत्स ! त्वया कृतं साधु, साधुभक्तिं वितन्वता । तत: श्लोकोत्तरार्धन, यत्तेऽभीष्टं वृणुष्व तत् ! ।।१७५।। llel ISH foll lioil || || Islil Mail lol २२७ lel || llel Jain Education International For Personal & Private Use Only llell www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy