________________
461
Ifoll
उत्तराध्ययन
सूत्रम् २२४
isi चतुरङ्गीयनाम 6 तृतीय
मध्ययनम्
Mall
lleli
Ioll
Mail
||sil
all foll
Ifoll
स प्रोचेऽत्रैव पर्यङ्के-ऽभ्यक्तः स्नातश्च साम्बरः । स्वप्नेऽद्याऽहं स च स्वप्नो, भवेत्सत्यापितः श्रिये ।।१२४ ।। स्नास्याम्यहं तदत्रैव, तेनेत्युक्ते जगाद सा । स्वामिन्नेवमिदं हृद्यं, तूलिकादि विनद्ध्यति ।।१२५ ।। अचलोऽप्यऽब्रवीत्तर्हि, दास्ये सर्वमितः शुभम् । अक्काप्युवाच किं पुत्रि !, भर्तुरिष्टं करोषि न ।। १२६ ।। तत: परवशा देव-दत्ता दूनमना अपि । अभ्यज्योद्वर्तयामास, पर्यङ्कस्थितमेव तम् ।।१२७।। उष्णः खलिजलायेस्तं, स्त्रपयामास सा ततः । तल्पाधःस्थो मूलदेव-स्तैरभ्रियत सर्वतः ।। १२८।। सोऽथ दध्यौ ममाप्यद्या-ऽऽपतितं व्यसनं महत् । प्राणिनः प्राज्यरागस्य, किं वा दुःखं न सम्भवेत् ! ।। १२९ ।। यतः - "देशत्यागं वह्नितापं, कुट्टनं च मुहुर्मुहुः । रागातिरेकन्मञ्जिष्ठा-ऽप्यनुते किं पुनः पुमान् ! ।।१३०।।" तदिदानीमुपायं कं, कुर्वे तिष्ठामि यामि वा । दिग्मूढवदिति ध्यायंस्तत्रास्थाद्भूर्तराट् तदा ।। १३१।। ततोऽचलभटान् दृष्टि-सञ्जयाऽऽहूय कुट्टिनी । तयैवाऽचलमादिक्ष-द्भुतॊ निष्काश्यतामिति ।। १३२।। ततस्तमचलो धृत्वा, केशपाशे समाकृषत् । इति चोवाच रे ! ब्रूहि, शरणं तव कोऽधुना ? ।। १३३ ।। मया भूरितरैवित्तः, स्वीकृतां गणिकामिमाम् । रिरंसोस्तेऽधुना ब्रूहि, कुर्वेऽहं कञ्च निग्रहम् ? ।। १३४ ।। मूलदेवोथ परितः, प्रेक्ष्य शस्त्रोद्भटान् भटान् । इति दध्यौ बलं कुर्वे, चेत्तदा जीवितं क्व मे ? ।। १३५ ।। निरायुधोऽहं कर्तव्यं, वैरनिर्यातनं च मे । तद्वलावसरो नाय-मिति ध्यात्वेत्युवाच सः ।।१३६ ।।
lisil llell
lall
libll Nell
| lifoll 1151
llell lell
Mail
foll
Isll Illl lesil
sil
161 Ill iii
Wall
le. in Education International
leill llslil
For Personal & Private Use Only
www.jainelibrary.org