________________
116
Ill
lol उत्तराध्ययन- ||
सूत्रम्
isi चतुरङ्गीयनाम
llll
MT तृतीय
२२२
losil
|| || lall
मध्ययनम्
Isil
16
Isl
Poll
16
lel
Ifoll
देवदत्ताऽब्रवीन्मातः !, केवलं धनरागिणी । नास्म्यहं किन्तु मे भूयान्, प्रतिबन्धो गुणोपरि ! ।।१८।। क्रोधाध्माताऽवदन्माता, धूर्ते स्युस्तत्र के गुणाः ? । देवदत्ता ततोऽवादी-त्तद्गुणाक्षिप्तमानसा ।। ९९।। दक्षो दाक्षिण्यवान् धीरः, कलावदी प्रियंवदः । दाता विशेषविञ्चायं, तन्नवाऽमुं जहाम्यहम् ।। १०० ।। ततः सा कुट्टिनी कोपा-विष्टा दुष्टा निजाङ्गजाम् । प्रतिबोधयितुं नैकान्, दृष्टान्तानित्यदीदृशत् ।। १०१।। सा यावकेऽथितेऽदात्तं, नीरसं दारु चन्दने । माल्ये निर्माल्यमिक्षौ च, तत्प्रान्तं नीरमासवे ।। १०२।। किमेतदिति सा पुत्र्या, पृष्टा चैवमवोचत । इदं यादृक्प्रियस्तेऽसौ, तादृक् तं मुञ्च तद्रुतम् ।। १०३।। देवदत्ताऽभ्यधान्मात: !, परीक्षामविधाय किम् । तमेतत्सममाख्यासि, मूल् मणिमिवोपलम् ? ।। १०४ ।। परीक्ष्यतामयं तर्हि, जनन्येत्युदिता सुता । इथून प्रार्थयितुं दासी, प्राहिणोदचलान्तिके ।।१०५ ।। देवदत्ता याचते त्वा-मिथुनिति तयोदितः । इक्षुभिः शकटं भृत्वा-ऽचल: प्रेषीत्प्रमोदतः ।। १०६ ।। तदृष्ट्वाऽक्काऽवदत्पश्या-ऽचलस्यौदार्यमद्धतम् । प्रेषीन्मानातिगानिक्षून्, कल्पवृक्ष इवाशु यः ।।१०७।। तत: सुता जगौ मात-र्यद्यहं स्यां करेणुका । तदा ममोपयुज्यन्त, इक्षवोऽमी असंस्कृताः ।।१०८।। अत्रैवार्थे मूलदेवो-ऽप्यादेष्टव्यो भुजिष्यया । द्वयोरपि तयोर्मात-विशेषो ज्ञायते यथा ।। १०९।। इत्युक्त्वा मूलदेवान्ते, प्रेषीत्सा माधवीलताम् । साप्यस्ति देवदत्ताया, इक्षुश्रद्धेति तं जगी ।। ११०।।
Mel
Ioll
llll
Mal Isil
lel
२२२
llsil
Mer
Islll
in Education in
For Personal & Private Use Only
lll
www.jainelibrary.org