SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Illl उत्तराध्ययन सूत्रम् २२१ Wall ||७|| INI hol चतुरङ्गीयनाम lol Is तृतीय मध्ययनम् llel देवदत्ताऽथ नृत्यार्थ-माहूता राजवेत्रिणा । मूलदेवं सहादाय, ययौ पार्थिवपर्षदि ।। ८५ ।। उद्दामकरणं तत्र, नाटकं निर्ममे च सा । पटहं वादयंस्तां चा-ऽनर्तयर्तनायकः ।। ८६।। वीक्ष्य तं नाटकं कान्तं, भूकान्तो विस्मितो भृशम् । याचस्व वरमित्यूचे, न्यासीचक्रे तया तु सः ।। ८७।। गाढप्रेमा ततो मूल-देवे देव इवाप्सराः । देवदत्ता समं तेन, सौख्यमन्वहमन्वभूत् ।। ८८।। मूलदेवस्तु तत्रापि, न द्यूतव्यसनं जहौ । ततस्तं देवदत्तैव-मूचे सानुनयं रहः ।। ८९।। कलङ्कस्त्वादृशां द्यूतं, वैरस्यमिव वारिधेः । तदिदं व्यसनं श्रीणां, व्यसनं मुञ्च वल्लभ ! ।।१०।। तयेत्युक्तोऽपि नाऽत्याक्षी-न्मूलदेवस्तु देवनम् । दुस्त्यजं व्यसनं प्रायो, विशां गुणवतामपि ! ।। ९१ । । तस्यां पुर्यां सार्थवाहो-ऽचलाह्वोऽभून्महाधनः । स तु पूर्व मूलदेवा-देवदत्तारतोऽभवत् ।। ९२।। यद्यत्साऽमार्गयत्तत्त-त्सोऽदात्तस्यै धनादिकम् । प्राणानपि जनो रागी, दत्ते वित्तस्य का कथा ! ।। ९३।। तत्राऽऽयान्तं मूलदेवं, ज्ञात्वा सोऽन्तः क्रुधं दधौ । रोषः स्यात्प्राणिनां प्रायः, एकद्रव्याभिलाषिणाम् ! ।।९४ ।। छिद्राणि मूलदेवस्या-ऽन्वेषयामास सोऽन्वहम् । तद्भिया न ययौ तस्याः, सौधे धूतॊ विना छलम् ।। १५ ।। अथोचे देवदत्तां त-न्माता कैतवसेवधिम् । कितवं मूलदेवाह, निद्रव्यं मुञ्च नन्दने ! ।। ९६।। भूरिवित्तप्रदे नित्य-मचले निश्चला भव । एकत्र कोशे द्वो खड्गी, न हि मातः कदाचन ! ।।९७।। foll tell ၃၃၇ llol llol JainEducationa l For Personal Use Only awww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy