SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् २२० ill चतुरङ्गीयनाम || ||७|| तृतीयमध्ययनम् "नयणेहिं को न दीसइ, केण समाणं न होंति उल्लावा । हिअयाणंदं जं पुण, जणयइ तं माणुसं विरलं ।।७२।।" किञ्च - "भवन्ति सगुणा: केऽपि, कुरूपा मृगनाभिवत् । इन्द्रवारुणवत्केऽपि, रूपवन्तोऽपि निर्गुणाः ।। ७३ ।। ये तु मन्दारवद्रूप-वन्त: सारगुणान्विताः । ते चिन्तामणिवत्पृथ्व्यां, दुर्लभाः स्युर्भवादृशाः ! ।।७४।।" नाथामि तदहं नाथ !, नाऽथ कार्या विचारणा । यथा स्थितोऽसि मञ्चित्ते, तथा स्थेयं ममालये ।। ७५।। सोऽथाऽवादीदयि ! द्रव्य-हीने वैदेशिके मयि । प्रतिबन्धो न ते युक्तो, भ्रमर्या इव किंशुके ! ।। ७६।। सर्वेषामपि जन्तूनां, प्रेम स्यात्सधने जने । अर्थमात्रैषिणां वेश्या-जनानां तु विशेषतः ! ।।७७।। गुणानुरागागणिका, यदि स्यान्निर्धने रता । तदा ह्युपार्जनाभावा-त्सीदेत्तस्याः कुलं सदा ! ।। ७८।। वेश्या स्माह गुणज्ञानां, प्रेम्णो मानसजन्मनः । धनं निबन्धनं न स्या-गुणाः किन्तु निबन्धनम् ।। ७९।। धनं हि बाह्यमिभ्यास्त-द्वहिरेव स्पृशन्ति नः । चित्ते तु त्वादृशा एव, प्रविशन्ति कलाधनाः ! ।।८०।। यत: - "सज्जनानां वचो द्रव्य-सहस्रादतिरिच्यते । स्निग्धं चालोकितं लक्षा-त्सौहार्द कोटितस्तथा ।। ८१।। स्वदेश: परदेशश्चा-ऽन्येषां न तु कलावताम् । सकलो हि शशीव स्या-त्पूजनीयो जगत्त्रये ।। ८२।।" तदन्वहं त्वयाऽवश्य-मागन्तव्यं ममौकसि । सनिर्बन्धं तयेत्युक्तः, प्रतिपेदे स तद्वचः ।। ८३।। ततो मिथोऽनुरक्तो तौ, तुल्यचातुर्यशालिनी । चिरं चिक्रीडतुः स्वरं, करेणुकरिणाविव ।। ८४ ।। Illl 61 ill २२० JainEducation.in For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy