________________
191
उत्तराध्ययन
सूत्रम्
Isll
Mail lall
२१८
lifell
Isil
likel
isil चतुरङ्गीयनाम or तृतीय
मध्ययनम् llell Ioll lish || Ill Isl
Mail
Mall
Isl
PSI
||slil lall
विपञ्चीवादनाम्नायं, सम्पूर्ण तु त एव हि । कलयन्ति कलाकेलि-निलयाः कुशलोत्तमाः ! ।। ४६।। नाट्याचार्योऽथ तत्राऽऽगा-द्विश्वभूतिर्महामतिः । वामनायावदद्देव-दत्ता तं भरतोपमम् ।। ४७।। मूलदेवोऽब्रवीदेत-च्छिक्षितायाः पुरस्तव । अस्त्ययं भरत: किन्तु, विशेषो ज्ञास्यतेऽधुना ।। ४८।। विचारं भारतं तस्या-ऽप्राक्षी धिपस्ततः । विश्वभूतिस्तु तं मूढो-ऽवमेने वामनत्वतः ।। ४९।। ततः स तस्य भरत-व्याख्यां स्वैरं वितन्वतः । पूर्वापरविरोधाख्यं, दोषं तत्रोदभावयत् ।।५०।। उवाचानुचितं किञ्चि-द्विश्वभूतिस्ततो रुषा । सोपहासं शशंसैवं, मूलदेवोऽपि तं तदा ।। ५१।। रङ्गाचार्याङ्गनास्वेव, त्वमेवं नाटयेः क्रुधम् । न त्वन्यत्रेति तेनोक्ते, हीणो मौनं बभार सः ।।५२।। देवदत्ताऽथ तं खर्वं पश्यन्ती स्निग्धया दृशा । विश्वभूतेविलक्षत्व-मपनेतुमदोऽवदत् ।। ५३।। भवन्तो नाधुना स्वस्थाः, सन्ति कार्याकुलत्वतः । ततो विमृश्य वक्तव्यः, प्रश्नस्यार्थः क्षणान्तरे ! ।।५४।। जायते नाट्यवेला त-देवदत्ते ! व्रजाम्यहम् । एवं वदंस्ततो विश्व-भूतिस्तस्या गृहाद्ययो ।। ५५।। देवदत्ताऽथ सम्मान्य, वैणिकं विससर्ज तम् । भोजनावसरे जाते, चेटिकां चैवमभ्यधात् ।।५६।। आहूयतामङ्गमर्दः, कोऽपि स्नानार्थमावयोः । उवाच खर्वः कुर्वेह-मभ्यङ्गं ते यदीच्छसि ! ।।५७।। देवदत्ताऽवदद्दक्ष !, त्वमेतदपि वेत्सि किम् ? । सोवादीद्वेद्मि नो किन्तु, तज्ज्ञपार्श्वे स्थितोसम्यहम् ।। ५८।।
||61 Illl
16
||sil
lall Isl lall ||sil
le
16 ||७|| lion
lell
Nei NCH
२१८
llell 16 liell lel lol llell
Isll
Isll in Education interna
lel
lal
For Personal & Private Use Only
www.jainelibrary.org