SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ lish || चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २१७ leel तृतीय ||७|| Mol मध्ययनम् Main स्मित्वाऽथ वामनः प्रोचे-ऽवन्तीलोकोऽखिलोप्यहो । शुभाशुभविभागं द्राग, वेत्ति कामं विचक्षणः ! ।।३३।। देवदत्ता तदाकर्ण्य, साशङ्केति शशंस तम् । महात्मन् ! किमिह क्षुण्णं, विद्यते यद्वदस्यदः ? ।।३४।। सोऽवादीत्किमपि न्यूनं, वर्त्तते न भवादृशाम् । किन्तु वंशः सशल्योऽय-मस्ति तन्त्री च गर्भिणी ।। ३५ ।। विद्वन् ! कथमिदं ज्ञेय-मित्युक्ते देवदत्तया । सोऽप्येतद्दर्शयामीति, वदन् वीणामुपाददे ।। ३६ ।। तन्त्र्याः केशं दृषत्खण्डं, वंशाञ्चाकृष्य दत्तवान् । तां चाशु प्रगुणीकृत्य, स्वयं वीणामवादयत् ।। ३७।। व्यक्तग्रामस्वरां ग्राम-रागसङ्गममञ्जुलाम् । अतुच्छमूर्च्छनां लोक-कर्णपान्थसुधाप्रपाम् ।। ३८।। मञ्जुघोषवतीं घोष-वतीमाकर्ण्य तां रयात् । देवदत्ता सतन्त्रासी-त्परतन्त्रमना भृशम् ! ।। ३९।। (युग्मम्) करेणुरेका पूत्कार-शीलाऽभूत्तद्गृहान्तिके । तद्वीणाक्वणितं श्रुत्वा, साऽपि तूष्णीकतां दधौ ! ।। ४०।। देवदत्ता तत: स्नेहो-दञ्चद्रोमोद्गमाऽवदत् । अहो ! विदग्ध ! वैदग्ध्य-मिदं ते जगदुत्तमम् ।। ४१।। विपञ्चीवादने दक्षा, वाणीतुम्बुरुनारदाः । गीयन्ते ये बुधैर्विश्वे, ते विश्वेऽपि जितास्त्वया ।। ४२।। वैणिकोऽपि तदा नत्वा, तस्य पादावदोऽवदत् । विपञ्चीवादनं सद्यः, प्रसद्य मम शिक्षय ।। ४३।। धूर्ताधिपोऽभ्यधानाहं, सम्यग्जानामि वल्लकीम् । अस्ति किन्तु दिशि प्राच्या, पाटलीपुत्रपत्तनम् ।। ४४।। तत्र विक्रमसेनाह्वः, कलाचार्योऽस्ति धीनिधिः । मूलदेवोऽहञ्च किञ्चि-द्वीणां विद्वस्तदाश्रयात् ।। ४५।। Nell lol Ilall २१७ || Mall all Jain Education interriniditual lioll IIall www.jainelibrary.org For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy