________________
उत्तराध्ययन
सूत्रम् २१६
चतुरङ्गीयनाम
तृतीयमध्ययनम्
तदाकर्ण्य तमाह्वातुं, प्रैषीन्माधविकाभिधाम् । कुब्जां दासी देवदत्ता, साऽपि गत्वेति तं जगौ ।।२०।। अस्माकं स्वामिनी देव-दत्ता विज्ञपयत्यदः । कलानिधे ! प्रसीद त्व-मागच्छास्मन्निकेतनम् ।। २१।। मूलदेवोऽवदत्कुब्जे !, नागमिष्यामि तद्गृहम् । गणिकाजनसङ्गो हि, निषिद्धो बुद्धिशालिनाम् ।। २२।। यदुक्तं - "या विचित्रविटकोटिनिघृष्टा, मद्यमांसनिरताऽतिनिकृष्टा । कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिकां न विशिष्टाः ।।२३।।" तेनेत्युक्ताऽपि सा चाटु-शतैरावय॑ तं भृशम् । सनिर्बन्धं करे धृत्वा-ऽचीचलत्रिलयं प्रति ।।२४।। सोऽथ गच्छन् पुरो यान्ती, कुब्जामास्फाल्य तां रयात् । कलायाः कौशलाद्विद्या-प्रयोगाञ्च व्यधादृजुम् ।।२५।। ततस्सविस्मयानन्दा, सा तं प्रावीविशद्गृहे । देवदत्ताऽपि तं प्रेक्ष्य, बभूवाऽऽमोदमेदुरा ।। २६ ।। वामनस्याऽपि सा तस्य, वीक्ष्य लावण्यमद्धतम् । विस्मिता विष्टरे तुङ्गे, गौरवात्तं न्यवीविशत् ।।२७।। ततस्तया कुब्जिकया, दर्शयन्त्या निजं वपुः । प्रोक्ते तश्चेष्टिते देव-दत्ता देवं विवेद तम् ।।२८।। वैदग्ध्यगर्भरालापैः, कुर्वन् गोष्ठी तया समम् । मूलदेवो मनस्तस्याः , स्ववशं विदधे द्रुतम् ।।२९।। यतः - "अणुणयकुसलं परिहा-सपेसलं लडहवाणिदुल्ललिअं । आलवणंपि हु च्छेआ-ण कमणं किं च मूलीहिं ? ।।३०।।" अथैको वैणिकस्तत्रा-ऽऽययो वीणाविशारदः । आदेशादेवदत्तायाः, सोऽपि वीणामवीवदत् ।।३१।। तामाकर्ण्य प्रमुदिता, देवदत्तैवमब्रवीत् । साधु साधु त्वया वीणा, वादिता वरवैणिक ! ।।३२।।
llsil Islil
si
Iel JainEducation intellel
For Personal & Private Use Only