________________
उत्तराध्ययन
सूत्रम्
२१५
का चतुरङ्गीयनाम
तृतीय||७| 16
मध्ययनम् Isl llol lol ||ol
isi
fol
llol
N
||6
lall ||
तत्राशेषगुणाढ्येऽपि, द्यूतव्यसनमुत्कटम् । अभूत्सर्वकलापूर्णे, शशाङ्क इव लाञ्छनम् ।।७।। पित्रादिभिनिषिद्धोऽपि, द्यूतासक्तिं स नामुचत् । व्यसनं हि विशां प्रायो, दुस्त्यजं स्यात्स्वभाववत् ! ।।८।। ततोऽसौ व्यसनासक्त, इति पित्रा तिरस्कृतः । मानान्निजपुरं हित्वा, भ्रमन्नुजयनीं ययौ ।।९।। गुलिकायाः प्रयोगाच, तत्र वामनरूपभृत् । कलाभिर्बहुभिर्लोकान्, रञ्जयन् विश्रुतोऽभवत् ।।१०।। रूपलावण्यविज्ञान-कलाकौशलशालिनी । तत्रासीदेवदत्ताह्वा, वेश्या स्वर्ग इवोर्वशी ।।११।। तां सर्वोत्कृष्टसकल-कलाकौशलगर्विताम् । कलाभिविस्मयं नेतुं, न दक्षोऽपि क्षमोऽभवत् ।।१२।। लोकेभ्यस्तत्स्वरूपं त-न्मूलदेवो निशम्य ताम् । दिदृक्षामास दक्षो हि, दक्षमन्यं दिदृक्षते ।।१३।। ततो निशान्ते गत्वा स, तनिशान्तस्य सनिधौ । वामनस्तन्मनो हर्तु, गीतं गातुं प्रचक्रमे ।।१४।। तद्गीतं स्फीतमाको -दञ्चद्रोमाञ्चकञ्चका । देवदत्ताऽभवद्भूरि-सुधापूरैरिवादिता ।। १५ ।। गीतेन तेन हल्लोहाकर्षायस्कान्तबन्धुना । कुरङ्गीवाकृष्टचित्ता, सा तन्वङ्गीत्यचिन्तयत् ।।१६।। अहो ! अश्रुतपूर्वासी, गीतिरस्यातिबन्धुरा । तद्गतासौ न सामान्यो, नरः किन्तु नरोत्तमः ! ।।१७।। ध्यात्वेति चेटिकामेकां, सा प्रेषीत्तं समीक्षितुम् । साऽपि तं वामनं वीक्ष्या-ऽऽगता तामित्यभाषत ।।१८।। गन्धर्वो वामनाकारः, कोऽपि स्वामिनि ! गायति । कुरङ्गमदवद्रूप-मन्तरापि मनोहरः ।।१९।।
le Mel Ioll
llell llell
Isi
16 lloll
२१५
JainEducationin
For Personal Private Use Only