SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Isi lish उत्तराध्ययन सूत्रम् २१४ lol ||Gl || lel llol | चतुरङ्गीयनाम तृतीय||all मध्ययनम् IST ||oll IST all ||60 islil ilal वृद्धोऽथ गेहमायातः, श्रुत्वा रत्नौघविक्रयम् । पताकाश्च प्रेक्ष्य दुःखं, मानसेऽमानमानशे ।।१६।। इत्यूचे च सुतान् कोप-कम्प्रकायोरुणेक्षणः । रे लक्ष्मीकन्दकुद्दाला: !, यूयं निर्यात महात् ।।१७।। तानि विक्रीतरत्नानि, समानीयाऽखिलान्यपि । ममौकसि प्रवेष्टव्यं, युष्माभिर्नान्यथा पुनः ! ।।१८।। इति तेनोदितास्तस्य, तनया विनयान्विताः । प्रत्याशमभ्रमन् रत्न-प्राप्तिं प्रत्याशयाकुलाः ।।१९।। अन्यान्यदेशवास्तव्य-वणिजां दत्तमुत्तमम् । परं ते पर्यटन्तोऽपि, तं रत्नोघं न लेभिरे ।।२०।। मरुन्महिना यदि वाऽश्ववीरं-स्तं रत्नराशिं धनदस्य पुत्राः । च्युतो नरत्वात्कृतपापकर्मा, नरोधिगच्छेन्न तु मानुषत्वम् ! ।।२१।। इति रत्नदृष्टान्तः पञ्चमः ।।५।। अथ स्वप्नदृष्टान्तः, तथा हि - अभूभृभामिनीभाले, क्षेत्रे भरतनामनि । गौडदेशो जातरूप-तिलकश्रियमाश्रयन् ।।१।। तत्रासीत्पाटलीपुत्रं, पुरं सुरपुरोपमम् । मूलदेवो राजपुत्र-स्तत्राऽभूदूपमन्मथः ।। २।। उदारचित्तः सकल-कलाशाली प्रियंवदः । कृतज्ञो नैकविज्ञान-विज्ञो विमलधीनिधिः ।।३।। शूरः प्रतिज्ञानिर्वाही, धूर्तविद्यैकसेवधिः । सोऽभूदुचितविद्दीना-नाथबन्धुर्गुणप्रियः ।। ४ ।। (युग्मम्) तस्करातकारादिः, साधुप्राज्ञाधिकोऽथवा । यो यो मिमेल ताद्रूप्यं, स भेजे स्फटिकाश्मवत् ।।५।। कुतूहलेनवनवे-निवान् विस्मयं नयन् । वृत्तो मित्रैः पुरे तत्रा-ऽचरत् खेचरवञ्च सः ।।६।। Isl ilal २१४ For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy