SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् llel il चतुरङ्गीयनाम lleel 1161 तृतीयमध्ययनम् २१३ ||Gll Isil Isil Ifoll 16ll Jell Isl lls ||oll धनदः स्वधनं तञ्च, नैव कस्याप्यवोचत । आयुर्वित्तं गृहच्छिद्रं, नो वाच्यमिति चिन्तयन् ।।३।। विश्वासं स्वीयपुत्राणा-मप्यकुर्वन् दिवानिशम् । निधानमिव भोगीन्द्र-स्तं रत्नौघं ररक्ष सः ! ।।४।। अपरेऽपि पुरे तत्र, भूयांसो धनिनोऽभवन् । अनेकधनकोटीनां, स्वामिनो धनदोपमाः ।।५।। ते च स्वीयेषु सोधेषु, पताका: कोटिसंमिताः । स्वैरमुत्तम्भयामासु-र्नानावर्णविराजिताः ।।६।। वेल्लद्धिस्तैर्ध्वजेस्तेषां, सुधाशुद्धा बभुर्गृहाः । हिमाद्रिशिखराणीव, सन्ध्याभ्रः पवनेरितैः ।।७।। धनदस्तु ध्वजं नैवो-त्तम्भयामास कर्हिचित् । न श्रीणामनुसारेण, वेषादिकमपि व्यधात् ! ।।८।। ततो महत्वमिच्छन्तः, सुतास्तस्येत्यचिन्तयन् । रोरवञ्चेष्टते रत्न-व्रजे सत्यपि न: पिता ! ।।९।। रत्नविक्रयणोत्पन्न-धनकोटीमितानसौ । ध्वजानपि निजे गेहे, नैवोत्तम्भयति क्वचित् ! ।। १०।। तदयं जातयामश्चे-द्याति क्वापि तदा वयम् । रत्नानि तानि विक्रीय, ध्वजानुत्तम्भयामहे ।।११।। व्यापारार्थमथान्येधु-वृद्ध देशान्तरं गते । प्रारेभिरे ते रत्नानां, विक्रय प्रीतचेतसः ।।१२।। तेभ्यो मूल्यानभिज्ञेभ्य-स्तानि देशान्तरागताः । रत्नानि जगृहुर्यत्त-न्मूल्यं दत्वा वणिग्जनाः ।।१३।। तेन रत्नौघलाभेन, हष्टास्ते वणिजां व्रजाः । जग्मुः पारसकूलादी-निजदेशान् द्रुतं द्रुतम् ! ।।१४।। रत्नविक्रयसञ्जात-वित्तकोटिमितान् ध्वजान् । सोत्सवं तत्सुताः स्वीय-सौधेऽध्यारोपयंस्ततः ।।१५।। tell ||७|| || islil ||slil Nell |ll liall Iroll Isil liol sil flell llell Jell Isl isi २१३ llsil llell JanEducation int For Personal Private Use Only I llumi.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy