________________
6 Mol isl चतुरङ्गीयनाम llsil
उत्तराध्ययन-
सूत्रम् २११
Gl ||
is
तृतीय
Mel
Iroll
मध्ययनम्
||Gll
llol
lol
llol ||6
||s ||७|
||sil Isil
leel
दिव्यप्रभावाद्यदि वा कदाचि-द्विवेचयेत्तानपि सर्षपान सा । च्युतो नरत्वान्न तु पापकर्मा, जनः पुनर्विन्दति मर्त्यजन्म ! ।।१।। इति धान्यदृष्टान्तः ।।३।। अथ द्यूतदृष्टान्तः, तथा हि - अभूत्पुरे रत्नपुरे, नृपो नाम्ना शतायुधः । तस्य चैको युवाऽवाप्त-यौवराज्य: सुतोऽभवत् ।।१।। स चेत्यालोचयामासा-ऽन्यदा मित्रादिभिः समम् । अद्य तातं निहत्याहं, स्वयं राज्यमुपाददे ! ।।२।। आलोचन्तं च निपुणो, ज्ञात्वाऽमात्यः कथञ्चन । राज्ञे व्यज्ञपयत्सोऽपि, तन्निशम्येत्यचिन्तयत् ।।३।। असम्भाव्यमिदं तात-मपि यन्मारयेत्सुतः ! । शशाङ्क शोषयेद्वा-द्धिमिति हि श्रद्दधीत कः ? ।।४।। लोभावेशाकुलो यद्वा, कुग्रहग्रस्तवजनः । नैव कार्यमकार्य वा, निव्रीडो वेत्ति किञ्चन ! ।।५।। यदुक्तं - "नोवेक्खइ कुलजाई, पेम्मं सुकयं च गणइ न य अयसं । लुद्धो कुणइ अकजं, मारइ पहु बंधु मित्तंपि ! ।।६॥" तदेष पुत्रो यावन्मां, लोभग्रस्तो न मारयेत् । तावत्स्वरक्षणोपायं, सद्यः कञ्चित्करोम्यहम् ।।७।। विमृश्येति महाबुद्धिः, प्रणामायागतं सुतम् । इति प्रोवाच तद्भाव-मविदन्निव भूधवः ।।८।। राज्यभारपरिश्रान्तो, राज्यं ते दित्सुरप्यहम् । स्वकीयकुलमर्यादां, नोल्लङ्घयितुमुत्सहे ।।९।। अतिक्रामन् हि मर्यादा-माचीर्णा पूर्वपूरुषैः । शलभोग्निमिवोल्लङ्घ-मानो विपदाश्रुते ! ।।१०।। कुप्येत्कुलाधिदेवी च, मर्यादोल्लङ्घकाय तत् । समाकर्णय तां राज्य-सुखभूरुहसारणीम् ।।११।।
llell Isil Jell
Iol
llsl ||७||
||sil ||sil
Mon
||७||
Isl
Isll sil
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org