SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Mon चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २१० तृतीय मध्ययनम् || ||sl || ||ll || || ||6| तं तु निर्जेतुमपरा-त्पुरादेरागता अपि । स्वर्णमेव ददुस्तस्मै, न तु कोऽपि जिगाय तम् ।।१५८।। दिव्यानुभावादिबलेन यद्वा, जीयेत केनाऽपि स धीसखोऽपि । प्रमादतो हारितमर्त्यजन्म, जन्मी पुनर्नो लभते नरत्वम् ।। १५९।। इति पाशकदृष्टान्तो द्वितीयः ।।२।। अथ धान्यदृष्टान्तः - तथा हि भरतक्षेत्रे, विशाले शालिलक्ष्मीभिः । द्वात्रिंशता सहस्रः स-द्विषयः शोभितेऽभितः ।।१।। अनेकनगरग्राम-पत्तनादिविराजिते । प्रशस्तायां मेघवृष्टी, सम्पन्नायां घनागमे ।।२।। सर्वधान्येषु चोप्तेषु, कृषिदक्षैः कृषीवलैः । तन्निष्पत्तौ प्रकृष्टायां, जातायां निरुपद्रवम् ।।३।। बहुभेदानि धान्यानि, प्रधानानि भवन्ति हि । समग्रजन्तुजीवातु-कल्पानि सरसानि च ।। ४।। (चतुर्भिः कलापकम्) तथा हि - "शालिगोधूमचनक-मुद्माषतिलाणुकाः । राजमाषयवव्रीहि-कलायकंगुकोद्रवाः ।।५।। मकुष्टकाढकीवल्ल-कुलत्थशणचीनकाः । युगन्धरीमसूरौ चा-ऽतसीकलमषष्टिकाः ।।६।।" (युग्मम्) इत्यादीन् सस्यराशीस्तान्, भरतक्षेत्रमध्यगान् । संमील्य रचयेत्कोऽपि, पुञ्जमभ्रलिहं सुरः ।।७।। सर्षपप्रस्थमेकं च, तत्र क्षिावा करम्बयेत् । तान् सर्षपान् पृथक्कर्तु-मेकां वृद्धां समादिशेत् ।।८।। जरती सा जराकम्प्र-करा शूर्पकधारिणी । विगलल्लोचना भूरि-विलोलवलिवल्लरी ।।९।। विविच्य धान्यराशीस्तान्, पिण्डितानखिलानपि । तैरेव सर्षपैः प्रस्थं, किं भूयोऽपि प्रपूरयेत् ? ।।१०।। (युग्मम्) ||Gl Mell hell llel ||७|| Ioll ||७|| Visi sil ||७|| 16ll lel Wish Isil le. in Education intentional For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy