________________
ru
उत्तराध्ययन
सूत्रम् २०८
॥ चतुरङ्गीयनाम 8 तृतीयIs मध्ययनम्
एवं मौर्यस्य साम्राज्ये, जाते निष्कण्टकेऽन्यदा । कोशार्जनाय चाणक्यः, पौरानाढ्यानजूहवत् ।।१३२।। भोजयित्वा च तान् सद्यो, मद्यं हृद्यमपाययत् । हालाहलाहलेनास्त-विवेकास्ते ततोऽभवन् ।। १३३।। तेषून्मत्तेषु नृत्यत्सू-त्पत्सु प्रपतत्सु च । चाणक्योऽपि क्षीवचेष्टा-मनुतिष्ठन्त्रदोऽवदत् ।। १३४।। त्रिदण्डं धातुरक्ते द्वे, चीवरे स्वर्णकुण्डिका । वशंवदो मे भूमांश्च, तन्मे वादय होलकम् ! ।।१३५।। तनिशम्याऽपरः सीधु-पानान्धो मदमुद्वहन् । कस्याप्यनुक्तां स्वां लक्ष्मी, प्रादुष्कुर्वन्निदं जगी ।।१३६ ।। योजनानां दशशती, व्रजतो मत्तदन्तिनः । पदे पदे ददे लक्षं, तन्मे वादय होलकम् ! ।। १३७ ।। ततोऽहम्पूर्विकापूर्व-मन्योप्येवमोचत । उप्ते तिलाढके बाढ-मुद्गते फलितेऽपि च ।।१३८।। निष्पद्यन्तेऽत्र यावन्त-स्तिलास्तावन्ति मगृहे । सन्ति दीनारलक्षाणि, तन्मे वादय होलकम् ! ।।१३९।। (युग्मम्) अन्योप्यूचे नव्यवर्षा-पूर्णशैलापगारये । एक वासरसञ्जात-नवनीतेन भूयसा ।।१४०।। पालीमहं निबध्नामि, तन्मे वादय होलकम् ! । तेनेत्युक्तेऽपरोऽवादीद्वादी चाक्षेपपूर्वकम् ।। १४१।। (युग्मम्) एकाहजातजात्याच-किशोरस्कन्धकेसरैः । वेष्टयऽदः पुरं विष्वक्, तन्मे वादय होलकम् ! ।।१४२।। तत: परोऽवदच्छाली, विद्यते द्वे ममोत्तमे । प्रसूतिकागर्दभिके, छिनछिनप्ररोहिके ।।१४३।। एतद्रत्नद्वयपते-स्तन्मे वादय होलकम् । । अन्यस्त्वेवं जगौ द्रव्य-सहस्त्रं मम विद्यते ।।१४४।।
||sall lioil
||6 lifoll liol
lol
llol
16ll Nor
२०८
llel
llel
Isl
lroll
For Personal Private Use Only