________________
उत्तराध्ययन
सूत्रम् २०७
Is का चतुरङ्गीयनाम
तृतीयमध्ययनम्
||slil
WEM
तत्पाहि पाहि मां वत्स !, कुरु काञ्चित्प्रतिक्रियाम् । अन्यथाहं मरिष्यामि, नियतं व्यथयानया ।। ११९ ।। ततो जाङ्गलिका मन्त्र-विज्ञाश्च क्वेति वादिनम् । चाणक्योऽन्वशिषञ्चन्द्र-गुप्तमेवं तदा शनैः ।। १२०।। पश्चान्मार्योऽप्यऽयं मौर्य !, म्रियते स्वयमेव चेत् । तदोपेक्षस्व दक्षो हि, रक्षेत्को यान्तमामयम् ? ।। १२१ । । ("अन्यच") तुल्यार्थं तुल्यसामर्थ्य, मर्मज्ञं व्यवसायिनम् । अर्धराज्यहरं मित्रं, यो न हन्यात्स हन्यते ! ।।१२२ ।। तत्साम्प्रतं साम्प्रतं ते, मोनमेवेति तेन सः । अनुशिष्टो भ्रकुट्या च, निषिद्धो मौनमाश्रयत् ।। १२३ ।। ततः पर्वतकोर्वीशः, प्रपेदे नामशेषताम् । उद्यमो हि विना भाग्य, प्रत्युतानर्थदो भवेत् । ।। १२४ ।। तस्य राज्यमपुत्रस्य, राज्यं नन्दस्य चाखिलम् । बभूव चन्द्रगुप्तस्या-धीनं भाग्यैकसेवधेः ।। १२५ ।। तदा च केऽपि तद्राज्ये, चौर्यं नन्दनरा व्यधुः । अन्यमारक्षकं कञ्चि-याणक्योऽमार्गयत्ततः ।। १२६ ।। अगाझ नलदामाह्व-कुविन्दस्य गृहं भ्रमन् । मत्कोटकबिलेष्वग्निं, क्षिपन्तं तं ददर्श च ।। १२७ ।। किं करोषीति चाणक्य-स्तमप्राक्षीञ्च सादरम् ? । उन्मुखीभूय सोत्कर्ष, कुविन्दोप्येवमब्रवीत् ।। १२८ ।। दुष्टान्मत्कोटकानेतान्, मत्सूनोर्दशदायिन: । सान्वयान् हन्तुमनलं, बिलेषु प्रक्षिपाम्यहम् ।। १२९ । । इति तस्य गिरा ज्ञात्वा, कर्मठं सोद्यमं च तम् । गत्वा च चन्द्रगुप्तान्ते, चाणक्योऽजूहवन्मुदा ।।१३०।। तस्मै पुराध्यक्षतां च, चन्द्रगुप्ताददापयत् । भोज्याद्यैः सोऽपि विश्वास्या-ऽखिलांश्चौरान् जघान तान् ।।१३१।।
llall lirail llell
Isil
||ll
16ll
llel
leir
Iroll ||sil
lcil lloll
lel le
२०७
iel liol
Fell
For Personal Private Use Only